SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ [ ६५ विंशतिर्विंशिकाः ] दशमी श्रावकप्रतिमाविंशिका द्वितीयायां तु द्वौ मासौ, तृतीयायां त्रयो मासा एवमुत्तरत्रापि प्रतिप्रतिमां मासवृद्ध्या यावदेकादश्यां प्रतिमायामेकादश मासा उत्कृष्टं कालमानं, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमन्तर्मुहूर्तादिमाना एव, तच्च मरणे वा प्रव्रजितत्वे वा सम्भवति, नान्यथेति ज्ञेयम् ।।५।। अथ तृतीयामाह तह अत्तवीरिउल्लासजोगओ रयतसुद्धिदित्तिसमं। सामाइयकरणमसइ सम्मं सामाइयप्पडिमा॥६॥ अक्षरगमनिका—तथा आत्मवीर्योल्लासयोगतः असकृत् सम्यग् रजतशुद्धिदीप्तिसमं सामायिककरणं सामायिकप्रतिमा ।।६।। टीका तथा समुच्चये,आत्मवीर्योल्लासयोगतो वीर्यान्तरायकर्मक्षयोपशमाद् यद् आत्मवीर्यं स्वजीवबलं तेनोल्लास उत्साहो गुणाराधनार्थं तस्य योगतो व्यापारेण असकृद् बहुशः सम्यग् यथाविधि रजतशुद्धिदीप्तिसमं रजतं धातुविशेषस्तच्छुद्धिरनवद्यता तत एव दीप्तिः कान्तिस्तया समं तुल्यम् अतिचारपरिहारेण यथाविधिसेवनाद् विशुद्धिमत्वाच्च, सामायिककरणं सामायिकं सावद्येतरयोगनिवृत्तिप्रवृत्तिलक्षणः अनुष्ठानविशेषो मुहूर्तादिकालावधिकं तस्य करणं विधानम्। श्रावकस्य परमगुणस्थानमेतद् यतः सामायिके कृते सति श्रमण इव श्रावको भणितः। एवं सामायिकप्रतिमा तृतीया सामायिकप्रधाना प्रतिमा यावत् त्रीन् मासान् । उक्तं च वरदंसणजुओ सामाइयं कुणइ जो तिसञ्झासु। उक्कोसेण तिमासं एसा सामाइयप्पडिमा ।।१।। (उपासकदशावृत्तौ)।।६।। अथ चतुर्थीमाह पोसहकिरियाकरणं पव्वेसु तहा तहा सुपरिसुद्धं । जइभावभावसाहगमणघं तह पोसहप्पडिमा॥७॥ अक्षरगमनिका—तथा पर्वसु तथा तथाऽनघं यतिभावभावसाधकं सुपरिशुद्धं पौषधक्रियाकरणं पौषधप्रतिमा ||७|| टीका तथा समुच्चये पर्वसु अष्टमीचतुर्दश्यादिषु तथा तथा तेन तेन प्रकारेण अनघं निष्पापं यतिभावभावसाधकं यतिः साधुस्तस्य भावः सर्वविरतिपरिणामस्तस्य भावतः परमार्थतः साधकं निष्पादक सुपरिशुद्ध यथाविधि निरतिचारं पौषधक्रियाकरणं पुष्णाति धर्ममिति पौषधं चतुर्विधाहारशरीरसत्काराऽब्रह्मसावधव्यापारपरिहाररूपमनुष्ठानं तस्य क्रिया परिपूर्णपालनात्मिका न पुनरन्यतरेणापि प्रकारेण परिहीना तस्याः करणं विधानं चतुर्थी पौषधप्रधाना पौषधप्रतिमा ज्ञेया। तदुक्तं चोपासकदशाटीकायाम्-पुव्वोदियपडिमाजुओ पालइ जो पोसहं तु संपुण्णं। अट्ठमीचउद्दसाइसु चउरो मासे चउत्थी सा ।।9।। |७|| अथ पञ्चमीमाह पन्चेसु चेव राई असिणाणाइकिरियासमाजुत्तो। मासपणगावहि तहा पडिमाकरणं तु तप्पडिमा ॥८॥ असिणाण वियडभोई मालियडो रत्तिबंभमाणेण। पडिवक्खमंतजावाइसंगओ चेव सा किरिया ॥६॥ अक्षरगमनिका-पर्वस्वेवाऽस्नानादिक्रियासमायुक्तो मासपञ्चकावधि रात्रिं तथाप्रतिमाकरणं तु वि.६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy