________________
६६ ] दशमी श्रावकप्रतिमाविंशिका
[विंशतिर्विंशिकाः तत्प्रतिमा ।।८।। अस्नानो विकटभोजी मुत्कलकच्छो रात्रावब्रह्ममानेन प्रतिपक्षमन्त्रजापादिसंङ्गतश्च सा क्रिया ||६||
टीका-पर्वस्वेव अष्टमीचतुर्दश्यादिष्वेव पौषधदिनेषु अस्नानादिक्रियासमायुक्तो वक्ष्यमाणाऽस्नानविकटभोज्यादिक्रियासमन्वितो मासपञ्चकावधि यावत् पञ्च मासान् रात्रिं निशामेकां चतुष्पथादौ तथाप्रतिमाकरणं वक्ष्यमाणप्रकारेण प्रतिमा कायोत्सर्गस्तस्य करणं विधानमेव तुरवधारणे तत्प्रतिमा प्रतिमाप्रतिमा पञ्चमी स्थिरसत्त्वस्य ज्ञानिनः अणुव्रतगुणव्रतशिक्षाव्रतवतः श्रमणोपासकस्य। तदुक्तं चोपासकदशावृत्ती सम्ममणुव्वयगुणवयसिक्खावयं थिरो य नाणी य अट्ठमी चउद्दसीसुं पडिमं ठाएगराइयं ।।१।। प्रतिज्ञातामस्नानादिक्रियामाह अस्नानः प्रतिमादिनेषु स्नानपरिवर्जकः, तथा विकटभोजी प्रतिमावर्जेष्वपि दिवसेषु रात्रिभोजनत्यागेन प्रस्तुतप्रतिमायां तु विकटे दिवा भुङ्क्त इति, तथा मउलियडो प्राकृतत्वाद् मुत्कलकच्छ: प्रतिमादिनेषु अबद्धपरिधानकच्छः कच्छां नारोपयतीत्यर्थः, तथा प्रतिमावर्जेषु दिवसेषु रात्रौ निशिअब्रह्ममानेन संभोगपरिमाणेन सङ्गत इति वक्ष्यमाणमत्रापि योज्यम्। अयं भावः-अत्र तु प्रतिमायां प्रतिमारात्रिषु पौषधप्रतिमागताऽब्रह्मपरिहारात् प्रतिमावर्जास्वपि रात्रिषु अब्रह्मपरिमाणेन युक्तो ज्ञेयः। उक्तं चोपासकदशाविवरणे-राइं परिमाणकडो पडिमावज्जेस दियहेस || तथा प्रतिपक्षमन्त्रजापादिसङ्गतः अब्रह्मण प्रतिपक्षः प्रतीपो विरुद्धः पक्षः सहायो ब्रह्म तदेव ब्रह्मचर्यं तद्रक्षार्थ मन्त्रो यथा 'ॐ नमो बंभवयधारीणं' इत्यादिरूपस्तस्य जापः पुनःपौन्येन स्मरणम् आदिपदात् स्त्रीदेहाशुचिभावनादिग्रहस्तेन संगतो युक्तो जीवाजीवादितत्त्वज्ञः श्रमणोपासको भवति । क्रियाक्रियावतोरभेदोपचारात् साऽनन्तरगाथोक्ताऽस्नानादिका क्रियाऽनुष्ठानरूपा ज्ञेया। प्रसङ्गतः कायोत्सर्गे स्थितो यद् ध्यायति तदुच्यते-लोकपूज्यान् जिनान् जितकषायान् अन्यद्वा जिनापेक्षया निजकामक्रोधादिदोषप्रत्यनीकं कामनिन्दाक्षान्तिप्रभृतिकम्। तदुक्तं चोपासकदशावृत्तौ झायइ पडिमाए ठिओ तिलोयपुज्जे जिणे जियकसाए। नियदोसपच्चणीयं अण्णं वा पञ्च जा मासा ||१||८-६॥ अथ षष्ठीमाह
एवं किरियाजुत्तोऽबंभं वजेइ नवरं राइं पि।
छम्मासावहि नियमा एसा उ अबंभपडिमत्ति ॥१०॥ अक्षरगमनिका-एवं क्रियायुक्तः अब्रह्म वर्जयति केवलं रात्रावपि षण्मासावधि नियमादेषा त्वब्रह्मप्रतिमेति ।।१०।।
टीका-एवं पूर्वोदितगुणवान् क्रियायुक्तः अस्नानादिक्रियासमन्वितः स्थिरचित्तो विजितमोहनीयश्चाऽत एव अब्रह्म मैथुनं वर्जयति परिहरति नवरं प्राकृतत्वात् पुनरर्थं विशेषद्योतकम्, तथाहि-पूर्वस्यां हि प्रतिमायां दिवस एव मैथुनं प्रतिषिद्धमासीत् अस्यां तु दिवापि रात्रावपि रजन्यामपि सर्वथेत्यर्थः षण्मासावधि यावत् षण्मासान् नियमादवश्यंतयाऽत एवात्र विस्रोतसिकाहेतूनां श्रृङ्गारकथाविभूषोत्कर्षादीनामपि प्रतिषेधः कृतः। उक्तं चोपासकदशाटीकायाम्
पुव्वोदियगुणजुत्तो विसेसओ विजियमोहणिज्जो य। वज्जइ अबम्भमेगन्तओ य राई पि थिरचित्तो ।।१।। सिङ्गारकहाविरओ इत्थीए समं रहसि नो ठाई। चयइ य अइप्पसङ्गं तहा विभूसं च उक्कोसं ।।२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org