SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] दशमी श्रावकप्रतिमाविंशिका [ ६७ एषाऽनन्तरोक्तस्वरूपैव तुरवधारणे अब्रह्मप्रतिमा अब्रह्मवर्जनप्रधाना प्रतिमा इतिः समाप्तौ ।।१०।। अथाब्रह्मणो वर्जनमेव प्रसङ्गेन विशेषतो निरूपयति जावजीवाए वि हु एसाऽबंभस्स वजणा होइ । एवं चिय जं चित्तो सावगधम्मो बहुपगारो॥११॥ अक्षरगमनिका--एवमेव यावज्जीवतयापि खल्वेषाऽब्रह्मणो वर्जना भवति यच्चित्रः श्रावकधर्मो बहुप्रकारः ।।११॥ टीका-एवमेव अनन्तरोक्तनीत्यैव यावजीवतयापि-यावज्जीवं प्राणधारणं तस्य भावो यावज्जीवता तयापि न केवलं षण्मासावधीत्यपेरर्थः, हु प्राकृतत्वात् सम्भावनायाम् एषा ग्रन्थकारहृदयस्था अब्रह्मणो मैथुनस्य वर्जना परिहरणा भवति जायते यद् यस्मात् चित्रः अद्भुतः श्रावकधर्मः श्रमणोपासकधर्मो बहुप्रकारः अनेकविध इति ।।११।। अथ सप्तमीमाह एवंविहो उ नवरं सचित्तं पि परिवजए सव्वं । सत्त य मासे नियमा फासुयभोगेण तप्पडिमा ॥१२॥ अक्षरगमिनका—एवंविधस्तु केवलं प्रासुकभोगेन सचित्तमपि सर्वं परिवर्जयति सप्त च मासान् नियमात् तत्प्रतिमा ।।१२।। टीका-एवंविधः अनन्तरोक्तषष्ठीप्रतिमागुणवानेव तुरवधारणे नवरं प्राकृतत्वात् केवलं प्रासुकभोगेन अचेतनाशनाद्यभ्यवहारेण सचित्तमपि न केवलमब्रह्म सचेतनाशनादिकमपि सर्वं निरवशेषं परिवर्जयति परिहरति यावत् सप्त च मासान् नियमाद् अवश्यंतया तत्प्रतिमा सचित्तवर्जना प्रतिमा सप्तमीति ।।१२।। सचित्तपरिहारमेव प्रसङ्गेन विशेषत आह जावजीवाए वि हु एसा सचित्तवज्जणा होइ। एवं चिय जं चित्तो सावगधम्मो बहुपगारो॥१३॥ अक्षरगमनिका-एवमेव खल्वेषा सचित्तवर्जना यावजीवतयापि भवति यत् चित्रः श्रावकधर्मो बहुप्रकारः ॥१३॥ टीका-एवमेव अनन्तरोक्तप्रकारेणैव हु प्राकृत्वात् सम्भावनायाम् एषा ग्रन्थकारहृदयस्थितत्वात् प्रत्यक्षा सचित्तवर्जना पूर्वोक्तस्वरूपा यावजीवतयापि यावत्कथिकमपि भवति यद् यतश्चित्रः पूर्ववत् श्रावकधर्म उपासकधर्मो बहुप्रकारः पूर्ववदिति ।।१३।। अथाष्टमीमाह एवं चिय आरम्भं वजइ सावञ्जमट्ठमासं जा। तप्पडिमा पेसेहि वि अप्पं कारेइ उवउत्तो॥१४॥ अक्षरगमनिका—एवमेत सावद्यमारम्भं वर्जयति यावदष्ट मासान् उपयुक्तः प्रेष्यैरप्यल्पं कारयति ॥१४॥ टीका-एक्मेव अधस्तनीप्रतिमोक्तानुष्ठानं विदधान एव सावद्यारम्भं कर्मबन्धकारणं कृषिवाणिज्यादिकं स्वयं करणतो वर्जयति परिहरति यावदष्ट मासान् अष्टमासावधि तावद् वृत्तिनिमित्तम् उपयुक्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy