________________
६८] दशमी श्रावकप्रतिमाविंशिका
[विंशतिर्विंशिकाः तथाविधतीव्रपरिणामरहितः प्रैष्यैरपि कर्मकरैरपि अल्पं स्तोकं सावद्यारम्भं कारयति विधापयति। ननु स्वयं करणतः सावद्यारम्भं परिहरन् कर्मकरैः कारयन् निर्दयता तदवस्थैवेति चेत्, सत्यं तथापि स्वपरो
कारणजन्या या हिंसा सा स्वयमकरणतः परिहृता भवति यतः स्तोकोपि सावधपरिहारप्रारम्भ उल्बणव्याधेः स्तोकक्षय इव हितकर एव भवतीति ।।१४।। अथ नवमीमाह
तेहिं पि न कारेई नवमासे जाव पेसपडिम ति।
पुबोइया उ किरिया सव्वा एयस्स सविसेसा ॥१५॥ अक्षरगमनिका-तैरपि न कारयति नव मासान् यावत् प्रैषप्रतिमेति। पूर्वोदिता तु क्रिया सर्वैतस्य सविशेषा ।।१५||
टीका-पुत्रभ्रात्रादिषु न्यस्तकुटुम्बादिकृत्यभार ईश्वरः सन्तुष्टो वा धनधान्यादिषु अल्पाभिष्वङ्गतया चास्तां स्वयं तैरपि प्रैष्यैरपि न नैव कारयति विधापयति गुरुकान् सावधान् कृष्यादीनारम्भान् । अनेनाऽऽसनदापनादिलघुव्यापाराणामनिषेधः प्राप्यते। नव मासान् यावदवधि। एषाऽनन्तरोक्तस्वरूपा नवमी प्रैषप्रतिमा इति एवम्। अत्र विशेषमाह-पूर्वोदिता अधस्तनीप्रतिमोदिता तुः पुनरर्थः क्रिया अनुष्ठानलक्षणा सर्वा निरवशेषा एतस्य नवमीप्रतिमाराधकश्रावकस्य सविशेषा साधिकेति ।।१५।। अथ दशमीमाह
उद्दिवाहाराईण वजणं इत्थ होइ तप्पडिया।
दसमासावहि सज्झायझाणजोगपहाणस्स ॥१६॥ अक्षरगमनिका—स्वाध्यायध्यानयोगप्रधानस्योद्दिष्टाहारादीनां वर्जनमत्र दश मासावधि भवति तत्प्रतिमा ।।१६।।
टीका-स्वाध्यायध्यानयोगप्रधानस्य स्वाध्यायश्च वाचनाप्रच्छनादिलक्षणो ध्यानं च धादि स्वाध्यायध्याने त एव योगो धर्मव्यापारः प्रधानः प्रमुखो यस्य स तथा तस्य उद्दिष्टाहारादीनाम् आस्तां शेषसावधयोगस्य, उद्दिष्टं तमेव प्रस्तुतप्रतिमासमाराधकश्रावकमुद्दिश्य कृतमाहारादि अशनपानादिकमादौ येषां खादिमादीनां तानि तथा तेषामपि यद् वर्जनं परिहारः अत्र प्रस्तुतप्रतिमायां दश मासावधि दश मासान् यावत् तद् उद्दिष्टाहारवर्जनप्रधाना प्रतिमा दशमी भवति जायते। अयं तु विशेष :-एतत्प्रतिमाप्रतिपत्ता पुनः कश्चित् क्षुरमुण्डितमस्तको भवति शिखां वा शिरसि कोऽपि धारयति। तथा तत्र प्रतिमायां स्थितः साधूपासनापरः सूक्ष्मपदार्थेषु नित्यलिप्सः सन् पूर्वं भूम्यादौ यत् सुवर्णादिकं द्रव्यं निक्षिप्तं तत्पृच्छतां पुत्रादीनां यदि जानाति तर्हि कथयति, अकथने वृत्तिविच्छेदापत्तेः। अथ नैव जानाति ततो ब्रूते-नैवाहं किमपि जानामीति। एतावन्मुक्त्वा नान्यत्किमपि तस्य गृहकृत्यं कर्तुं कल्पत इति तात्पर्यम्।। यदुक्तं चोपासकदशावृत्तौ दसमा पुण दस मासे उद्दिट्टकयंपि भत्त नवि भुंजे । सो होइ छुरमुंडो छिहलिं वा धारए जाहिं ।।१।। जं निहियमत्थजायं पुच्छंति नियाण नवरि सो आह । जइ जाणे तो साहे अह नवि तो बेंति नवि जाणे ।।२।।१६।। अथैकादशी चरमामाह
इक्कारस मासे जाव समणभूयपडिमा उ चरिम ति। अणुचरइ साहुकिरियं इत्थ इमो अविगलं पायं ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org