SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः ] दशमी श्रावकप्रतिमाविंशिका [ ६६ अक्षरगमनिका-एकादश मासान् यावत् श्रमणभूतप्रतिमा तु चरिमेति अयमत्र प्रायः अविकलां साधुक्रियामनुचरति ।। १७॥ टीका-एकादश संख्यया मासान यावदवधि पुनः चरिमा पश्चिमा तुः पुनरर्थे श्रमणभूतप्रतिमा पूर्वोक्तशब्दार्था इति हेतोः,अयं श्रमणोपासकः क्षुरमुण्डो लोचमुण्डो वा प्रतिपत्ता अत्र प्रतिमायां रजोहरणपतद्ग्रहादिकं समस्तसाधूपकरणमादाय गृहान्निर्गत्य श्रमण इव प्रायो बाहुल्येन अनुचरति अनुतिष्ठति कायेन न मनोमात्रेण, काम् ? अविकलां सम्पूर्णां साधुक्रियां समितिगुप्त्यादियतिसामाचारीम्। अयं विशेष :-अव्युच्छिन्नममत्वः स्वज्ञातीन् द्रष्टुं संज्ञातकपल्लिं गच्छति । तत्र ज्ञातयः स्नेहादनेषणीयं भक्तादि कुर्वन्ति। आग्रहेण च तद् ग्राहयितुमिच्छन्ति। अनुवर्तनीयाश्च ते तथापि तदसौ न गृह्णाति, अपि तु साधुरिवैषणीयं प्रासुकं च गृह्णाति। तदुक्तं चोपासकदशाटीकायाम् खुरमुंडो लोओ वा रयहरण पडिग्गहं च गेण्हित्ता। समणब्भुओ विहरे णवरिं सण्णायगा उवरिं ।।१।। ममिकार अवोच्छिन्ने वच्चइ सण्णायपल्लिं दटुं जे। तत्थ वि साहुव्व जहा गिण्हइ फासुं तु आहारं ।।२||१७|| अथ फलभेदद्वाराऽनन्तरोक्तश्रमणभूतप्रतिमागतविशुद्धिसङ्क्लेशभेदेन भावभेदमाह आसेविऊण एवं कोई पबयइ तह गिही होइ। तब्भावभेयओ बिय विसुद्धिसंकेसभेएणं ॥१८॥ अक्षरगमनिका-विशुद्धिसङ्क्लेशभेदेनाऽऽसेव्यैतां तद्भावभेदत एव कोऽपि प्रव्रजति तथा गृही भवति ॥१८॥ टीका-विशुद्धिसङ्क्लेशभेदेन अश्रद्दधानविपरीतप्ररूपणातोऽत्रापि श्रमणभूतप्रतिमायामतिचारसम्भवः, तदुक्तं चोपासकदशावृत्तौ-पण्णवणवितहअसद्दहणाभावाउ अइयारो। यदि वा विहितेषु तपोज्ञानादिषु मनाग्रागतो निषिद्धेषु चेषद् द्वेषतोऽपि मालिन्यसम्भवः, उक्तं च योगशतके पडिसिद्धेसु अ देसे, विहिएसु य ईसिरागभावे वि। सामाइयं असुद्धं, सुद्धं समयाए दोसुं पि।।१७।। अत एव अतिचारमालिन्यभावाभावाभ्याम् आसेव्य अनुष्ठाय एताम् अनन्तरोक्तां प्रतिमां तद्भावभेदत एव विशुद्धसङ्क्लिष्टाध्यवसायभेदत एव कोऽपि आसन्नसिद्धिको प्रव्रजति यतिभावमङ्गीकरोति तथाऽन्यः सङ्क्लिष्टः पुनरपि गृही गृहस्थो भवति जायते। अत्राध्यवसायकृत एव भेदो न तु क्रियाकृतो भेदः अविकलसाधुक्रियाविधानादिति ।।१८।। अथासामेव प्रतिमानां हेतुपुरस्सरं यथोत्तरं विशुद्धितारतम्यं निरूप्य जीवविशुद्धिकारणत्वेन प्राशस्त्यमाह एया उ जहुत्तरमो असंखकम्मक्खओवसमभावा। हुंति पडिमा पसत्था विसोहिकरणाणि जीवस्स ॥१६॥ __ अक्षरगमनिका—एताः प्रतिमास्तु यथोत्तरमसंख्यकर्मक्षयोपशमभावाद् जीवस्य विशोधिकारणानि प्रशस्ता भवन्ति ।।१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy