________________
एकादशी यतिधर्मविंशिका
[ विंशतिर्विशिकाः
टीका - एता अनन्तरोक्ता एकादश प्रतिमा दर्शनव्रतादिकास्तुः पुनरर्थः यथोत्तरं प्रथमप्रतिमापेक्षया द्वितीयाप्रतिमा, द्वितीयापेक्षया तृतीया, तृतीयापेक्षया चतुर्थी, एवं यावदेकादशी प्रतिमा, असख्यकर्मक्षयोपशमभावाद् असङ्ख्यः पदैकदेशे पदसमुदायोपचाराद् असङ्ख्यगुणः स चासौ मोहनीयप्रभृतिकर्मणां क्षयोपशमः पूर्वोक्तस्वरूपस्तस्य भावो भवनं तस्माद् जीवस्य प्रतिमाराधकभव्यसत्त्वस्य विशोधिकारणानि चारित्रमोहनीयादिकर्मनिर्जरया रागादिसहजमलक्षयापादनादात्मशुद्धिहेतवः अत एव प्रशस्ताः शुभा भवन्ति वर्तन्त इति ॥ १६ ॥ उपसंहरन्नाह
७० ]
आसेविऊण एया भावेण निओगओ जई होइ । जं उवरि सव्वविरई देसविरई उ॥२०॥
इति श्रावकप्रतिमाविंशिका दशमी ||१०||
अक्षरगमनिका—आसेव्यैता भावेन नियोगतो यतिर्भवति यद् भावेन देशविरतित उपरि
सर्वविरतिः ||२०|
टीका— श्रमणोपासक आसेव्य समाराध्य एता अनन्तरोक्ता एकादश प्रतिमा भावेन यथाविधि निराशंसभावेन नियोगतः अवश्यं यतिः श्रमणो भवति जायते यद् यस्माद् भावेन निश्चयतो देशविरतितः पञ्चमगुणस्थानकलक्षणश्रावकधर्माद् उपरि पश्चाद् भाविनी सर्वविरतिः षष्ठसप्तमादिगुणस्थानकरूपो यतिधर्मो वर्तत इति शेषः । अनन्तरोक्तक्रम ओघत एव ज्ञेयो न तु सर्वथा यतः कर्मग्रन्थाभिप्रायेण कश्चित् प्रथमगुणस्थानकवर्ती भव्यसत्त्वो युगपदेव चतुर्थं सप्तमं च गुणस्थानकमारोहति तथा श्रावकप्रतिमा अनासेव्यैव बहूनां प्रव्रज्याश्रवणात् तथापि दुःषमकालानुभावाद् दुरनुचरत्वाच्च संयमस्य प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति ॥ २० ॥
एकादशी यतिधर्मविंशिका
समाप्ता श्रावकप्रतिमाविंशिका, तत्समाप्तौ च समाप्तं ग्रन्थार्धम् । तत एव प्राप्तो मध्यमङ्गलावसरः । अतस्तत्पुरस्सरं श्रावकप्रतिमाफलभूतं तदुपरिभाविनं च यतिधर्मं निरूपयितुकाम आह— नमिऊण खीणदोसं गुणरयणनिहिं जीणं महावीरं ।
संखेवेण महत्थं जइधम्मं संपवक्खामि ॥१॥
अक्षरगमनिका - नत्वा क्षीणदोषं गुणरत्ननिधिं जिनं महावीरं सम्प्रवक्ष्यामि संक्षेपेण महार्थं यतिधर्मम् ॥१॥
टीका - नत्वा प्रणम्य मनोवाक्कायैः क्षीणदोषं क्षीणाः समूलं क्षयं गता मोहाज्ञानादयो दोषा आत्मगुणदूषका यस्य स क्षीणदोषस्तम्, अत एव गुणनिधिं दोषविगमेन प्रादुर्भूतवीतरागत्वसर्वज्ञत्वादिगुणानां धर्मतीर्थप्रवर्तनादिगुणानामुपकाराणां च निधिर्निधानं तम्, जिनं रागादिरिपुजेतारं महावीरम् आसन्नोपकारिवर्तमानधर्मशासनपतिं सम्प्रवक्ष्यामि सम्यक् प्रकर्षेण भणिष्यामि संक्षेपेण समासेन, व्यासेन तु ग्रन्थकृता स्वयं ग्रन्थान्तरेषु भणितत्वात्, महार्थं गभीरार्थं तीर्थकरगणधरैराचीर्णत्वादुपदिष्टत्वाच्च यतिधर्मं यतीनां साधूनां क्षान्त्यादिदशविधो धर्मस्तम्, न तु श्रावकधर्मं तस्यानन्तरमेवोक्तत्वादिति ॥ | १ || अथ यतिधर्मतया गुणानाह—
Jain Education International
*
4
For Private & Personal Use Only
www.jainelibrary.org