________________
विंशतिर्विशिकाः ] एकादशी यतिधर्मविंशिका
[७१ खंती य मद्दवजव मुत्ती तव संजमे य बोद्धव्वे।
सचं सोयं आकिंचणं च बंभं च जइधम्मो॥२॥ अक्षरगमनिका—क्षान्तिमार्दवार्जवं मुक्तिस्तपः संयमश्च सत्यं शौचमाकिञ्चन्यं च ब्रह्म च यतिधर्मो बोद्धव्यः ।।२।।
टीका-प्राकृतत्वेन विभक्तिप्रत्ययलोपात् समाहारद्वन्द्वाद्वैकवद्भावात् शान्तिः सहनपरिणामः क्रोधनिरोधात्तितिक्षा यतिधर्मः, एवमुत्तरत्रापि योज्यम् । मार्दवं मृदुता मानत्यागः,आर्जवमृजुता मायापरिहारः, मुक्तिर्लोभविवेकस्तृष्णाच्छेदेन मुक्तिसुखास्वादाद् मुक्तिहेतुरिति, तपोऽनशनादिद्वादशविधम्, संयम आश्रवकषायेन्द्रियादिनिरोधेन षड्जीवनिकायरक्षणम्, सत्यं मृषापरिहारेण सद्भ्यो हितो वाग्व्यापारः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः अचौर्यमित्यन्ये, आकिञ्चन्यं धनकनकादिरहितता, ब्रह्म ब्रह्मचर्यम्, चशब्दाः समुच्चयार्थाः, यतिधर्मः श्रमणधर्मो बोद्धव्यो ज्ञातव्य इति ।।२।। अथ क्षान्तिमेव विशेषत आह
उवगारवगारिविवागवयणधम्मुत्तरा भवे खंती।
साविक्खं आदितिगं लोगिगमियरं दुगं जइणो॥३॥ अक्षरगमनिका-उपकार्यपकारिविपाकवचनधर्मोत्तरा भवेत् क्षान्तिः। सापेक्षमादित्रिकं लौकिकमितरद् द्विकं यतेः ।।३।।
टीका-उपकारी उपकारवान्, अपकारी अपकारप्रवृत्तः, विपाकः कर्मफलानुभवनमनर्थपरम्परा वा, वचनम् आगमः, धर्मः शुद्धात्मस्वभावस्तदुत्तरा तप्रधाना भवेद् जायेत क्षान्तिः क्षमा। तदुक्तं च षोडशकवृत्तौ-तत्रोपकारिणि क्षान्तिरुपकारक्षान्तिः, तदुक्तं दुर्वचनाद्यपि सहमानस्य। तथा अपकारिणि शान्तिरपकारक्षान्तिः, मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यतीत्यभिप्रायेण क्षमां कुर्वतः। तथा विपाके क्षान्तिः विपाकशान्तिः, कर्मफलविपाकं नरकादिगतमनपश्यतो दुःखभीरुतया मनुष वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपरस्सरा संभवति। तथा वचनक्षान्तिः आगममेवालम्बनीकत्य या प्रवर्तते, न पुनरुपकारित्वापकारित्वविपाकाख्यालम्बनत्रयं सा वचनपूर्वकत्वादन्यनिरपेक्षत्वात्तथोच्यते। धर्मोत्तरा तु शान्तिश्चन्दनस्येव शरीरस्य छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारकारिणी न विक्रियते सहजत्वेनावस्थिता सा तथोच्यते । एवं शान्तिः पञ्चधा। तत्रादित्रिकम् उपकार्यपकारिविपाकक्षान्तिलक्षणं लौकिकं सापेक्षं लोके प्राकृतजनाचीर्णत्वाद् लौकिकफलसापेक्षत्वाच्च । इतरद् लोकोत्तरं द्विकं वचनधर्मक्षान्तिरूपं लौकिकफलनिरपेक्षतया लोकोत्तरमोक्षफलत्वाद् यतेः श्रमणस्य भवतीति ।।३।। एतदेव हेतुपुरस्सरमाह
बारसविहे कसाए खविए उवसामिए य जोगेहिं।
जं जायइ जइधम्मो ता चरिमं तत्थ खतिदुगं॥४॥ अक्षरगमनिका-यद् योगैदिशविधे कषाये क्षपित उपशामिते च जायते यतिधर्मस्तस्मात्तत्र, चरमं शान्तिद्विकम् ।।४।।
टीका-यद् यस्माद् योगैः ज्ञानक्रियालक्षणैः द्वादशविधे अनन्तानुबन्धिचतुष्काप्रत्याख्यानावरणचतुष्कप्रत्याख्यानावरणचतुष्कलक्षणे कषाये क्रोधमानमायालोभरूपे चारित्रमोहनीयादिकर्मणामुदीर्णेऽशे क्षपिते क्षयं नीते तथानुदीर्णेऽशे च उपशामिते उपशमं प्रापिते सति जायते प्रादुर्भवति यतिधर्मः क्षान्त्यादिलक्षणः
एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org