________________
७२ ] एकादशी यतिधर्मविंशिका
[विंशतिर्विशिकाः श्रमणधर्मः, तस्मात् कारणात् तत्र यतिधर्मे धर्मधर्मिणोर्वा कथञ्चिदभेदाद् यतौ चरमं वचनधर्मलक्षणं क्षान्तिविकं क्षमाद्वयं वचनक्षान्तिधर्मक्षान्तिश्च भवतीति ।।४।। ननु द्वादशविधे कषाये क्षपित उपशामिते च यतिधर्मो जायते तथापि संज्वलनानामुदयस्तदवस्थस्ततस्तत्र कथं निरपेक्षा शान्तिरित्याशङ्क्याह
सव्वे य अईयारा जं संजलणाणमुदयओ हुंति।
ईसिजलणा य एए कुओवगारादविक्खेह ॥५॥ अक्षरगमनिका-यत् सर्वे चातिचाराः संज्वलनानामुदयतो भवन्ति, ईषज्ज्वलनाश्चैते कुत उपकाराद्यपेक्षेह ।।५।।
टीका-यद् यस्मात् सर्वे निरवशेषा एव चः अवधारणे अतिचारा व्रतमालिन्यापादका लघवः अपराधाः संज्वलनानां षष्ठादिगुणस्थानकवर्तिजीवेषु लब्धसत्तानां क्रोधादीनाम् उदयतो विपाकोदयतो भवन्ति जायन्ते, तथा स्वभावत एव ईषज्जवलनाः स्वल्पदहनाः कादाचित्कत्वान्निरनुबन्धाच्च चः पुनरर्थे एते संज्वलनक्रोधादयः। अत एव इह यतिधर्मे क्रोधादिकण्डू तितीव्रा । एवं सति कुतः कस्मात् उपकारायपेक्षा उपकारादिलौकिकफलसापेक्षा लालसा, न कुतोऽपीत्यर्थः। इदं तु ध्येयम्-वचनक्षान्त्यामेवातिविरलातिचारसम्भवः, धर्मक्षान्त्यां तु विक्रियाऽभावाद् अतिचाराभाव एव ।। तदुक्तं च-चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च। (षोडशक १०-११ पूर्वार्धम्) ।।५।। एतदेवाह
छट्टे उण गुणठाणे जइधम्मो दुग्गलंघणं तं च।
भणियं भवाडवीए न लोगचिंता तओ इत्थं ॥६॥ अक्षरगमनिका-षष्ठे पुनर्गुणस्थाने यतिधर्मः, तच्च भवाटव्यां दुर्गलंघनं भणितं, ततोऽत्र न लोकचिन्ता ।।६।।
टीका-यत्र षष्ठ एव सङ्ख्यया गुणस्थाने प्रतीते यतिधर्मः क्षान्त्यादिलक्षणः श्रमणधर्मः प्रारभ्यते, न तु पञ्चमादिषु गुणस्थानकेषु। तच षष्ठं गुणस्थानकं दुष्पापं यतो भवाटव्यां संसारारण्ये दुर्गलंघनं दुरतिक्रममोहपर्वतातिक्रमणं भणितं कथितं तीर्थकरगणधरैस्ततस्तस्माद् अत्र यतिधर्मे न नैव लोकचिन्ता लोकयात्रातप्तिरिति ।।६।। निष्कर्षमाह
तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स।
पढममिह वयणखंती पच्छा पुण धम्मखंति त्ति ॥७॥ अक्षरगमनिका—तस्मात् सर्वाश्रवान्निवृत्तस्य यतेनियमेनैव प्रथममिह वचनक्षान्तिः पश्चात् पुनर्धर्मक्षान्तिः ।।१७।।
टीका—यस्माद् यतिधर्मे लोकचिन्ता नास्ति तस्मात् कारणात् सर्वाश्रवात् प्राणातिपातादिनिरवशेषाश्रवाद् निवृत्तस्य विरतस्य यतेः श्रमणस्य प्रथमम् आदावभ्यासदशायाम् इह यतिधर्मे वचनक्षान्तिः श्रीजिनवचनानुसारिणीक्षमा धर्मक्षान्तिसाधनं पश्चात् तदूर्ध्वं तन्मयीभावेनाध्ययनाद्यभिरतेः स्वभ्यस्तदशायामेव पुनरवधारणे धर्मक्षान्तिः धर्मः प्रशमादिस्तप्रधाना क्षान्तिः क्षमेति ।।७।। अथानन्तरोक्तोपकार्यपकार्यादिपञ्चप्रकारत्वं मार्दवादिष्वप्यतिदिशन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org