Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 74
________________ विंशतिर्विशिकाः ] दशमी श्रावकप्रतिमाविंशिका दशमी श्रावकप्रतिमाविंशिका अनन्तरविंशिकायां यदुक्तं प्रतिमाक्रमेण जायते सम्पूर्णश्चारित्रपरिणाम इत्यत्र विंशिकायां श्रावकप्रतिमा निरूप्यन्ते । तत्र प्रतिमानामनिर्देशिकाऽऽद्या गाथेयम् दंसणवयसामाइयपोसहपडिमा अबंभसच्चित्ते । आरंभपेस उद्दिवज्जए समणभूए य ॥१॥ अक्षरगमनिका दर्शन-व्रत-सामायिक - पौषध-प्रतिमाऽब्रह्म-सचित्ताऽऽरम्भ-प्रैष्योद्दिष्टवर्जकः श्रमणभूतश्च || १ || टीका - दर्शनं सम्यग्दर्शनं, व्रतानि चाऽणुव्रतगुणव्रतादीनि, सामायिकं च समतासाधनं सावद्येतरयोगनिवृत्तिप्रवृत्तिलक्षणं, पौषधं चाऽष्टमीचतुर्दश्यादिदिनविधेयोपवासादि, प्रतिमा च कायोत्सर्गः, एतद्विषयकप्रतिमेति सर्वत्र योज्यम् । एताश्च पञ्चाऽपि प्रतिमा विधेयत्वाद् विधिरूपा अवसेयाः । अतः परं पञ्च प्रतिमास्तत्तद्विषयवर्जनान्निषेधरूपा ज्ञातव्याः, तथाहि — अब्रह्म चाऽब्रह्मचर्यं सचित्तं सचेतनद्रव्यमिति समाहारद्वन्द्वाद् अब्रह्मसचित्तम्, आरम्भश्च स्वयं कृषिवाणिज्यादिकरणं, प्रैषश्च प्रैष्यद्वारा कृष्यादिकारणम्, उद्दिष्टं चात्मानमुद्दिश्य सचित्तं सदचित्तीकृतं पक्वं वा यो वर्जयति सः अब्रह्मसचित्ताऽऽरम्भप्रैषोद्दिष्टवर्जकः प्रतिमा, प्रतिमाप्रतिमावतोरभेदोपचाराद् एतद्वर्जनविषयाः प्रतिमाः समवसेयाः । एवमुत्तरत्रापि भावनीयम् । तथा–श्रमणः साधुः स इव यः स श्रमणभूतः चः समुच्चये । सर्वत्र दर्शनव्रतादिपदेषु प्रतिमाशब्दो योज्यः, तथा च दर्शनप्रधाना प्रतिमा दर्शनप्रतिमा । एवमेव व्रतप्रधाना व्रतप्रतिमा । एवमुत्तरत्रापि नेयम् ||१|| अथासां ज्ञानोपायमाह Jain Education International एया खलु इक्कारस गुणठाणगभेयओ मुणेयव्वा । समणोवासगपडिमा बज्झाणुट्ठाणलिंगेहिं ॥२॥ [ ६३ अक्षरगमनिका — एताः खल्वेकादश गुणस्थानकभेदतो बाह्यानुष्ठानलिङ्गैः श्रमणोपासकप्रतिमा मुणितव्याः ॥ २॥ टीका- - एता अनन्तरोक्ता एव खलुरवधारणे एकादश सङ्ख्यया श्रमणोपासकप्रतिमा ज्ञातव्या इति सम्बन्धः । गुणस्थानक भेदतो देशविरतस्यैकमेव पञ्चमगुणस्थानं तथापि तदपान्तरालभूमिकापेक्षया प्रतिमाक्रमेण वा विशुद्धितारतम्यसूचका वा क्रमश आत्मोत्थानसूचका भेदास्तैः, बाह्यानुष्ठानलिङ्गैश्च बाह्यैस्तत्तत्प्रतिमायोग्यैर्वक्ष्यमाणैः शुश्रूषादिभिर्लिङ्गैश्चित्रैः श्रमणोपासकप्रतिमाः श्रमणोपासकः श्रावकस्तस्य प्रतिमाः प्रतिज्ञा अभिग्रहविशेषा इति यावद् मुणितव्या बोद्धव्या इति ॥ २ ॥ एतदेवाह — सुस्सूसाई जम्हा दंसणपमुहाण कज्जसूय त्ति । कायकिरियाइ सम्मं लकुक्खिज्जइ ओहओ पडिमा ॥३॥ अक्षरगमनिका —— यस्मात् शुश्रूषादय ओघतो दर्शनप्रमुखाणां कार्यसूचका इति कायक्रियया सम्यग् लक्ष्यते प्रतिमा || ३ ॥ टीका — यस्मात् कारणात् शुश्रूषादयः श्रवणेच्छाधर्मरागादय ओघतः सामान्येन दर्शनप्रमुखाणां For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148