Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 91
________________ ८० ] द्वादशी यतिशिक्षाविंशिका [ विंशतिर्विंशिकाः अक्षरगमनिका —— तस्य तस्य च सूत्रस्यार्थग्रहणे तु एष तथैवानुपूर्व्या भावपर्याययोगतो विज्ञेयः ॥ ६॥ टीका- - तस्य तस्य चाऽऽवश्यकदशवैकालिकादेः सूत्रस्य पूर्वोक्तस्वरूपस्य अर्थग्रहणे अभिधेयग्रहणे तुशब्दो विशेषे स च वक्ष्यत एव एष विधिर्यथा सूत्रग्रहणे 'पत्तं परियाएणं' इत्यादिस्तथैव तेनैव प्रकारेण आनुपूर्व्या परिपाट्या, तथाहि प्रथमं तावदावश्यकं ततो दशवैकालिकं तत उत्तराध्ययनानि तत आचाराङ्गमित्यादिरूपया । अथ विशेषमाह - भावपर्याययोगतो भावश्च यथा सूत्रं तथा सूत्रार्थोऽपि परममन्त्ररूप इत्यध्यवसायः पर्यायश्चाऽस्खलितचारित्रपर्यायो भावपर्यायौ ताभ्यां योगतः सङ्गत्या । 'भावपरिवागजोगओ'त्ति पाठान्तरमाश्रित्य भावः परिणामस्तस्य परिपाकः परिणतिः, अपरिणामित्वातिपरिणामित्वपरिहारेण परिणामित्वमित्यर्थस्तद्योगतस्तत्सङ्गत्या विधिः विज्ञेयो बोद्धव्यः । अयं भावः - अर्थग्रहणे पर्यायेण प्राप्तोऽपि अपरिणामी अतिपरिणामी चाऽयोग्य इति तत्परिहारेण परिणामिन्येवार्थन्यास इति विधिः ॥ ६ ॥ अर्थग्रहणविधिमेव विशेषत आह— अक्षरगमनिका मण्डली निषद्याऽक्षाः कृतिकर्मोत्सर्गो वन्दनं ज्येष्ठ उपयोगः संवेगः स्थाने प्रश्नश्चेत्यादि ||१०|l च मंडलिनिसिज अक्खाकिइकम्मुस्सग्ग वंदणं जिट्ठे । उवओगो संवेगो ठाणे पसिणो य इच्चाइ ॥१०॥ टीका — मण्डली साधूनां यथापर्यायं गोलाकारावस्थानं यत्र वा तद् व्याख्यानादिस्थानम् । क्वचिद् ग्रन्थान्तरे 'मज्जन' इतिपाठस्तथा च मण्डलीस्थानप्रमार्जनम् । निषयाऽऽसनविशेषो गुवदिः, आदिपदात् स्थापनाचार्यस्याऽक्षाणां मनागुच्चतरा । अक्षाः चन्दनका उपनीयन्ते, क्वचित् 'सिक्खा' 'सक्खा' चापपाठ इति नाद्रियते । कृतिकर्म वन्दनमाचार्यस्य । कायोत्सर्गः अनुयोगार्थमूर्ध्वस्थानम् । ज्येष्ठे ज्येष्ठविषयं वन्दनम्, इह भाषमाणो भवति ज्येष्ठः, न तु पर्यायेण ततो वन्देत तमेवेति । उपयोगः समीपयोगः प्रस्तावाच्च सूत्रार्थव्याख्यानश्रवणविषयः अवितथभावः, एतल्लिङ्ग एव बोधः परलोकपक्षपातो भगवद्बहुमानश्च । उक्तं उवओगो पुण एत्थ विण्णेओ समीवजोगो त्ति । विहियकिरियागओ खलु अवितहभावो उ सव्वत्य ॥ । यो श. गा. ७६ ।। संवेगः अहोभावस्तदभिव्यञ्जको वा रोमाञ्चगद्गदध्वन्यादिः । उक्तं च-जह जह नवनवसुअमभिगाहइ तह तह संवेगमेइ । स्थाने योग्यावसरे प्रश्नः पृच्छा चः समुच्चय आदिपदात् प्रतिप्रश्नादिग्रहणमवसेयमिति ||१०|| अथाssसेवनशिक्षामाह- आसेवइ य जहुत्तं तहा तहा सम्ममेस सुत्तत्थं । उचियं सिक्खापुव्वं नीसेसं उवहिपेहाए ॥११॥ अक्षरगमनिका—यथोक्तं सूत्रार्थं तथा तथैष उपधिप्रेक्षया शिक्षापूर्वमुचितं निःशेषं सम्यगा सेवते ॥ ११ ॥ टीका — यथोक्तं येन येन प्रकारेण श्रीजिनवरगणधरैरुपदिष्टं सूत्रार्थं पूर्वोक्तस्वरूपं तथा तथा तेन तेन प्रकारेण एष यतिः उपधिप्रेक्षया उपधिर्मायाचारस्तत्प्रेक्षया निरीक्षणेन शिक्षापूर्वम् आत्मानुशासनपूर्वं यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148