Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 84
________________ । ७३ निकमा विंशतिर्विशिकाः ] एकादशी यतिधर्मविंशिका एमेवऽज्जवमद्दवमुत्तीओ हुंति पंचभेयाओ। पुबोइयनाएणं जइणो इत्थं पि चरमदुगं॥८॥ अक्षरगमनिका--एवमेवार्जवमार्दवमुक्तयो भवन्ति पञ्चभेदाः। पूर्वोदितन्यायेन यतेरत्रापि चरमद्विकम् ॥८॥ ___टीका-एक्मेव उपकार्यपकार्यादिभेदेनैव आर्जवमार्दवमुक्तय उक्तार्था भवन्ति वर्तन्ते पञ्चभेदाः पञ्चप्रकाराः। पूर्वोदितन्यायेन शुभयोगैादशकषायक्षयोपशमभावात् संज्वलनानामुदयाद् दुष्प्रापयतिधर्मप्राप्तेर्लोकचिन्ताभावाच्च सर्वाश्रवनिवृत्तस्य यतेः साधोः अत्रापि न केवलं क्षान्तौ, आर्जवमार्दवमुक्तिष्वपि चरमविकं वचनधर्मलक्षणम्, तथाहि-वचनार्जवं धर्मार्जवं, वचनमार्दवं धर्ममार्दवं तथा वचनमुक्तिधर्ममुक्तिश्चेति ॥८॥ अथ तपोधर्ममाह इहपरलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं। तं सुद्धनिजराफलमित्थ तवो होई नायबो॥६॥ अक्षरगमनिकाइहपरलोकाद्यनपेक्षं यदनशनादिचित्रानुष्ठानं तत् शुद्धनिर्जराफलमत्र तपो भवति ज्ञातव्यम् ।।६।। टीका-इहपरलोकायनपेक्षं इह अत्रैव जन्मनीष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदादेः परलोके च देवेन्द्रनरेन्द्रादिपदव्यादेः आदिपदात् श्लाघाकीादिग्रहणं तस्मान्निरपेक्षं निस्पृहं यद् वक्ष्यमाणम् अनशनादिचित्रानुष्ठानम् अनशनोनोदरिकादिलक्षणं बाह्यं प्रायश्चित्तविनयादिरूपमभ्यन्तरं, तदुक्तं चअणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ।।१।। पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ। झाणं उस्सग्गो वि य अब्मिंतरओ तवो होइ ।।२।। एतद्विधानं यत्र तत् तपः शुद्धनिर्जराफलं शुद्धं कषायनिरोधब्रह्मचर्यादिविधानात्मकम्, तदुक्तं च यत्र ब्रह्म जिनार्चा च, कषायाणां हतिस्तथा। सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते ॥१॥ज्ञानसारः ।। यदि वा शुद्धं केवलं निर्जराफलं कर्मक्षयकारणम् अत्र मौनीन्द्रप्रवचने तप उक्तस्वरूपं भवति युज्यते ज्ञातव्यं बोद्धव्यमिति ।।६।। साम्प्रतं संयमधर्ममाह आसवदारनिरोहो जमिंदियकसायदंडनिग्गहओ। पेहातिजोगकरणं तं सबं संजमो नेओ॥१०॥ अक्षरगमनिका-आश्रवद्वारनिरोधो यदिन्द्रियकषायदण्डनिग्रहतः प्रेक्षादियोगकरणं तत् सर्वं संयमो ज्ञेयः ||१०|| टीका-आश्रवद्वारनिरोध आश्रवद्वाराणि अभिनवकर्मबन्धहेतवः प्राणातिपातादयः पञ्च तेषां निरोधो निग्रहः । तथा यद् वक्ष्यमाणम् इन्द्रियकषायदण्डनिग्रहत इन्द्रियाणि श्रोत्रादीनि पञ्च, कषायाश्च क्रोधादयश्चत्वारः, दण्ड्यते चारित्रैश्वर्याऽपहारतः असारीक्रियत एभिरात्मेति दण्डा दुष्प्रणिहिता मनोवाक्कायास्त्रयश्च तेषां निग्रहो निरोधः। उक्तं चवि. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148