________________
५२ ]
अष्टमी पूजाविधिविंशिका
[ विंशतिर्विशिकाः
'अगारिणोऽवि' पाठान्तरमाश्रित्य गृहस्थस्यापि च उक्तसमुच्चये इति हेतोः संलग्नमानसं धर्मस्थानं यद् ब्रुवते तत् सम्यक् समीचीनमेवेति ||१०|| अथोपचारभेदात् पूजाभेदमाहपंचट्ठसव्वभे ओवयारजुता य होइ एस त्ति । जिणचउवीसाजोगोवयारसंपत्तिरूवा
य ॥११॥
अक्षरगमनिका — पञ्चाष्टसर्वभेदोपचारयुक्ता च भवत्येषेति जिनचतुर्विंशतेरयोगोपचारसम्पत्तिरूपा
च ||११||
टीका–पञ्चाष्टसर्वभेदोपचारा पञ्चभिः कुसुमाक्षतगन्धधूपदीपैः क्रियत उपचारः प्रतिपत्तिर्यत्र सा पञ्चोपचारा, सैव सनैवेद्यफलजला अष्टोपचारा उपलक्षणात् स्नपनार्चनवस्त्रविभूषणादिभिः सप्तदशादिसर्वभेदोपचारयुक्ता च भवति जायते एषा पूजा इतिर्हेतौ यस्माद् जिनचतुर्विंशत्ययोगोपचारसम्पत्तिरूपा जिनचतुर्विंशतेः ऋषभादिमहावीरपर्यन्तजिनेश्वराणाम् अयोगो विरहो मुक्तिगमनात्, तस्मात् तस्याः श्रीजिनचतुर्विंशतेः उपचारसम्पत्तिरूपा उपचारः अतद्वति तदारोपः स क्रियते यासु तासां जिनेन्द्रप्रतिमानाम् अनन्तरोक्तपूजालक्षणेन विनयोपचारेण संप्राप्तिरूपा भावतः साक्षात्करणरूपा प्रस्तुतपूजा । तदुक्तं च - " तत्थ य पंचुवयारा कुसुमक्खयगंधधुवदीवेहिं ।”, “कुसुमक्खयगंधपईवधुवने वेज्जफलजलेहिं पुणो । अट्ठविहकम्मदलनी अड्डवयारा हवइ पूआ । सव्वोवयारपूया णहवणच्चणवत्थभूसणाइहिं । फलबलिदीवाईहिं नट्टगीअआरत्तिआहिं ।। " (चैत्यवन्दन महाभाष्य २०६/११) अथवा जानुद्वयकरद्वयोत्तमाङ्गलक्षणैः पञ्चाङ्गप्रणिपातरूपो विनयो यत्र सा पञ्चोपचारा, एषैव सपृष्ठवक्षउदरा अष्टोपचारा, अन्तःपुरहस्त्यश्वरथादिभिश्च सर्वैः प्रकारैरुपचारो यस्यां सा सर्वोपचारा दशार्णभद्रनृपस्येव । तदुक्तं च- "दो जाणू दोणि करा पंचमयं होइ उत्तमंगं तु”, सिसमुरोयर पिट्ठी दो बाहू उरुया य अहंगा ।। तथा " सव्वबलेणं सव्वसमुदएणं सव्वविभूइए सव्वविभूसाए सव्वायरेणेत्यादि ” ।।११।।
अधुना पूजायां द्रव्यभावशौचमाह—
सुद्धं चेव निमित्तं दव्वं भावेण सोहियव्वं ति ।
इय एगंतविसुद्धा जायइ एसा तहिट्ठफला ॥ १२ ॥
अक्षरगमनिका— शुद्धं द्रव्यं निमित्तमेवेति भावेन तथा शोधितव्यमेवमेकान्तविशुद्धा जायत एष्टफला ||१२||
टीका - पूजायां शुद्धम् अनवद्यं न्यायोपात्तत्वाद् द्रव्यं पुष्पादि निमित्तमेव हेतुरेव शुभभावं प्रति । तदुक्तं पूजापञ्चाशके—पवरेहिं साहणेहिं पायं भावोवि जायए पवरो। इति हेतोः भावेन यथा विहितानुष्ठानमेषा पूजा निराशंसभावेन सदा कुर्वतां भवति चरणस्य हेतुः । तथा पूजातो मनः शान्तिस्ततः शुभध्यानं ततो मोक्ष इत्यादि भावनया तथा तेन प्रकारेण शोधितव्यं विशिष्टशुद्धिमत् कुर्यात् । एवम् उक्तप्रकारेण एकान्तविशुद्धा नितान्तानवद्या जायते भवति एषा पूजा इष्टफला सिद्धिफलेति ||१२|| शुभभावं प्रति पूजादिसामग्रीलक्षणं द्रव्यं निमित्तमुक्तम् । साम्प्रतं जिनेन्द्रप्रतिमालक्षणं निमित्तमाह
Jain Education international
सयकारियाइ एसा जायइ ठवणाइ बहुफला केइ । गुरुकारियाइ अत्रे विसिट्ठविहिकारियाए य ॥ १३॥
For Private & Personal Use Only
www.jainelibrary.org