SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विशिकाः । अष्टमी पूजाविधिविंशिका [ ५३ अक्षरगमनिका-स्वयंकारितायाः स्थापनाया एषा बहुफला जायते इति केचित्, गुरुकारिताया इत्यन्ये विशिष्टविधिकारितायाश्च ।।१३।। टीका-स्वयम् आत्मना कारिताया निर्मापितायाः प्रतिष्ठापितायाश्चेति शेषः स्थापनायाः श्रीजिनेन्द्रप्रतिमाया एषा पूजा बहुफला विशिष्टलाभप्रदा जायते भवतीति केचिदाचार्याः। गुरुकारितायाः पितृपितामहादिनिष्पादितायाः प्रतिष्ठापितायाश्च पूजा बहुफलेति अन्ये स्वव्यतिरिक्ताचार्याः। विशिष्टविधिकारितायाश्च दलनिष्पत्तिस्थानखन्यादितो जिनोक्तविशिष्टविधिपूर्वकदलानयनादिना कारिताया निर्मापितायास्तथा महामहोत्सवादिपरस्सरप्रतिष्ठापिताया जिनेन्द्रप्रतिमायाः पूजा बहफलेत्यपरे। तदुक्तं सम्यक्त्वप्रकरणे-गरुकारियाइ केह, अन्ने सयकारियाई तं बिंति। विहिकारियाई अन्ने, पडिमाए पूअणविहाणं ।।१॥ १३॥ एतान् सर्वान् मतान् व्यवस्थापयितुमाह थंडिल्ले वि य एसा मणठवणाए पसत्थिगा चेव । अगासगोमयाइहिं इत्थमुल्लेवणाइ हियं ॥१४॥ अक्षरगमनिका-स्थण्डिलेऽपि चैषा मनःस्थापनायाः प्रशस्तिकैव। इत्थम् आकाशगोमयादिभिरुपलेपनादि हितम् ।।१४।। आस्तां विधिकारितादीनां जिनेन्द्रबिम्बानां पूजा स्थण्डिलेऽपि शुद्धभूमिमात्रेऽपि चः पुनरर्थे एषा आपनाया अन्तःकरणवृत्तिना कल्पिताया स्मृतिपथमानीताया जिनेन्द्रमहोरूपाया वा मानस्याः पञ्चनमस्कारेण वा स्थापिताया जिनेन्द्रप्रतिमायाः प्रशस्तिकैव प्रशंसास्पदमेव तथाभावप्राधान्यात्। इत्थं भावप्रधान्यात् आकाशगोमयादिभिः पृथिव्यामप्राप्तपवित्रगोमयवालुकादिभिरुपादानकारणभूतैः उपलेपनादि चयोपचयरूपेण निर्मापितायाः श्री जिनप्रतिमायाः पूजाकरणं हितं श्रेयस्करम् । यदि वा श्रीजिनेन्द्रबिम्बप्रतिष्ठितश्रीजिनगृहादिभूम्यादेरुपलेपनं तदुपरिपुष्पादिविकरणं च फलदत्वाद् हितम् । तदुक्तं च न्यायाचार्यैः षोडशकवृत्तौ-स्थण्डिलेऽपि शुद्धस्थानमात्रेऽप्येषा मनःस्थापनया विशिष्टविधिसामग्री विना पञ्चनमस्कारस्थापनामात्रेणापि प्रशस्ताभिमतात्राकाशगोमयादिभिः पवित्रोर्ध्वस्थगोमयादिभिरुपलेपनादि भूम्यादेर्हितं तावन्मात्रविधेरपि फलदत्वादिति ।।१४।। __ अनन्तरोक्तनीत्याऽऽस्तां स्वयंगुर्वादिकारितानां प्रतिमानां पूजा बहुफला मानसप्रतिमाया अपि पूजोपलेपनादि हितमित्यत्र हेतुमाह उवयारंगा इह सोवओगसाहारणाण इट्ठफला। किंचि विसेसेण तओ सव्वे ते विभइयव्व ति॥१५॥ अक्षरगमनिका-इहोपचाराङ्गात् सोपयोगसाधारणानामिष्टफलाः। किञ्चिद्विशेषेण ततः सर्वे ते विभक्तव्या इति ।।१५।। टीका-इह पूजाविषये स्वयंगुर्वादिकारिताः सर्वे प्रतिमाभेदा उपचाराङ्गात् विनयोपचारकारणात् सोपयोगसाधारणानाम् उपयोगो जिदचतुर्विंशतेर्मुक्तिगमनेनाऽयोगाद् विनयोपचारहेतुस्त्रिदशेशपूजितजिनप्रतिमेयं भववनदवदग्धभव्यानां श्रीजिनेन्द्रगतवीतरागत्वसर्वज्ञत्वाद्यद्भुतगुणानां प्रदर्शिनी दुरितदलनी सम्यक्त्वशुद्धकरणी चरणपरिणामजननी यावद् नागकेत्वादीनामिव कैवल्योत्पादनीत्यादि मानसप्राणिधानं तेन प्रणिहितानां दर्शनवन्दनपूजादिकर्तृणां साधारणानां सर्वेषाम् अविशेषेण इष्टफला मुक्तिप्रदा विज्ञेयाः। ननु स्वयंगुर्वादिकारितेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy