________________
विंशतिर्विशिकाः ] अष्टमी पूजाविधिविंशिका
[ ५१ एवं त्रिविधाया अपि समन्तभद्रादिद्रव्यपूजायाः कर्तारः सम्यग्दृष्ट्यादय उक्ताः ।।७।। अधुना प्रस्तुतद्रव्यपूजायाः कतरि ग्रन्थ्यासन्नापुनर्बन्धकमाश्रित्योच्यते
पढमकरणभेएणं गंथासनस्स धम्ममित्तफला।
सा हुजुगाइभावो जायइ तह नाणुबंधुत्ति ॥८॥ अक्षरगमनिका-प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य ऋजुकादिभावो न तथाऽनुबन्धो जायत इति सा हि धर्ममात्रफला ।।८।।
टीका-प्रथमकरणभेदेन पूर्वोक्तस्वरूपयथाप्रवृत्तकरणपरिणामोल्लङ्घनेन आद्यपरिणामोपरिवर्तमानस्य ग्रन्थ्यासनस्य सूचनात् सूत्रमिति पूर्वोक्तलक्षणग्रन्थिदेशं प्राप्तस्याऽपुनर्बन्धकस्य सतः ऋजुकादिभावः सर्वविरतिदेशविरत्यादिपरिणामो न नैव तथाऽनुबन्धः तथाविधसानुबन्धो जायते भवति इति हेतोस्तस्य सा द्रव्यपूजा सद्योगादिभावाद् धर्ममात्रफलैव सम्यग्दर्शनलक्षणशुद्धधर्ममात्रप्रापिकैव हिः पूर्ववत् अथवा साध्वृजुकादिभावः साधुः शोभनः ऋजुकादिभावः सानुबन्धसंयमादिभावस्तथाविधपरिज्ञानप्रणिधानाधभावाद् न जायत इत्यर्थः। तदुक्तं च महामहोपाध्यायैर्दशमषोडशकवृत्तौ-प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्ममात्रफलैवेयं सद्योगादिभावाद् अनुबन्धासिद्धेश्च ।।८।। संप्राप्तबीजस्य पूजातो जायमाननिजवीर्योल्लासस्य माहात्म्यमाह
भवठिइभंगो एसो तह य महापहविसोहणो परमो।
नियवीरियसमुल्लासो जायइ संपत्तबीयस्स ॥६॥ अक्षरगमनिका-संप्राप्तबीजस्य भवस्थितिभङ्गो महापथविशोधनश्च तथा परमो निजवीर्योल्लासो जायते ॥६॥
टीका-संप्राप्तबीजस्य सम्यगवाप्ततत्त्वजिज्ञासादिधर्मबीजस्य भव्यस्य पूजातो निजवीर्योल्लासो जायते इति सम्बन्धः। स पुनः कीदृशः ? यथा भवस्थितिभङगो दुःखलक्षणसंसारवासस्य भङ्गः क्षयो यतः स्यात् स तथा, उक्तं च-'पत्तबीअस्स अवड्डपुग्गलपरावट्टकालो' त्ति भवचारकपलायनकालघण्टाकल्प इति । महापथविशोधनश्च कदाग्रहत्यागेन माध्यस्थ्यात् सम्यग्ज्ञानादिलक्षणमोक्षमार्गविशोधकश्च यथा स्यात् तथा तेन प्रकारेण परमः अतिशयवान् एष निजवीर्योल्लासो वीर्यान्तरायकर्मक्षयोपशमजः अपूर्वमानसोत्साहो जायते प्रादुर्भवतीति ।।६। एनमेव वीर्योल्लासं स्तौति
संलग्गमाणसमओ धम्मट्ठाणं पि बिंति समयण्णू।
अवगारिणो वि इत्थट्ठसाहणाओ य सम्मं ति॥१०॥ अक्षरगमनिका-अतः समयज्ञाः संलग्नमानसं धर्मस्थानमपि ब्रुवन्ति, अत्रापकारिणोऽपि अर्थसाधनाच्च सम्यगिति॥१०॥
टीका-यतो भवस्थितिभनो महापथविशोधनश्चायं निजवीर्योल्लासः अतः अस्मात् कारणात् समयज्ञा गीतार्था एनं संलग्नमानसं संलग्न प्रतिबद्धं मानसम् अन्तःकरणवृत्तिर्यत्र तधर्मस्थानं गुणस्थानमपि ब्रुवन्ति व्यपदिशन्ति न केवलं क्रियास्थानमित्यपेरर्थः, यस्मादत्र सम्यक्त्वावाप्तौ धर्मादृते न किञ्चित् करणीयं भातीति न केवलं स्वजनोपकार्यादीनाम् अपकारिणोऽपि अनर्थकर्तुरपि अर्थसाधनात प्रयोजननिष्पादनात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org