________________
५० ] अष्टमी पूजाविधिविंशिका
[विंशतिर्विंशिकाः यद् मनसाऽऽपादयति तत्तु चरमायाम्, एवम्भूतो मानसो मनःसम्बन्धी नियोगो व्यापारो यस्यां सा तथा,शुद्धमनोयोगसारा अनवद्यान्तःकरणप्रधाना विज्ञेया समवगन्तव्या नाम्ना सर्वसिद्धिफला निर्वृत्तिकरणेन अजरामरत्वसाधनात्। यदुक्तं
विघ्नोपशमन्याद्या मताऽभ्युदयसाधनी चान्या। निर्वाणसाधनी च फलदा तु यथार्थसंज्ञाभिः ।।१।। ५॥ अथासां कर्तृन्निरूपयति
पढमावंचकजोगा सम्मद्दिहिस्स होइ पढम ति। इयरेयरजोगेणं उत्तरगुणधारिणो नेया॥६॥ तइया तइयावंचकजोगेणं परमसावगस्सेवं ।
जोगा य समाहीहिं सा हुन्झुगकिरियफलकरणा ॥७॥ अक्षरगमनिका-प्रथमाऽवञ्चकयोगात् सम्यग्दृष्टेर्भवति प्रथमेति। इतरेतरयोगेनोत्तरगुणधारिणो ज्ञेया ।।६।। तृतीया तृतीयाऽवञ्चकयोगेन परमश्रावकस्येयं योगात् समाधिभिश्च साध्वृजुकक्रियाफलकरणा ||७||
टीका-प्रथमाऽवञ्चकयोगात् क्रमाऽपेक्षया क्षयोपशमविशेषमाश्रित्य वा प्रथमः अवञ्चकयोगो योगाऽवञ्चकनामा समाधिविशेषस्तस्माद् हेतोः सम्यग्दृष्टेः पूर्वोक्तशमसंवेगादिलक्षणोपेतस्य भवति वर्तते प्रथमा समन्तभद्रा पूजा इतिः समाप्तौ। अथ द्वितीयाया विधातारमाह-इतरा द्वितीया सर्वमङ्गला पूजा इतरयोगेन इतरो द्वितीयो योगः अवञ्चकयोगः क्रियाऽवञ्चकनामा समाधिविशेषस्तेन करणभूतेन उत्तरगुणधारिणः सामायिकपौषधोपवासादिप्रत्याख्यानलक्षणोत्तरगुणधारिश्रावकस्य ज्ञेया बोद्धव्या ।।६।। साम्प्रतं तृतीयाया अनुष्ठातारं निर्दिशति-तृतीया सर्वसिद्धिफला तृतीयाऽवञ्चकयोगेन फलाऽवञ्चकयोगेन समाधिविशेषेण हेतुभूतेन परमश्रावकस्य श्रमणभूतसंज्ञाम् एकादशी श्रमणोपासकप्रतिमां वहतः सर्वोत्कृष्टश्रमणोपासकस्य प्रव्रज्याभिमुखस्य वा इयं प्रस्तुता पूजा भवतीति शेषः, यदि वैवम् इत्यम्भूताद् योगाद् अनुपकृतपरहितरतदेवाधिदेवपूजायां प्रयुक्तमनोवाक्कायव्यापारात् समाधिभिश्च अनन्तरोक्ताऽवञ्चकयोगलक्षणैश्च चः समुच्चये सा पूजाऽवश्यं हिरवधारणे ऋजुकक्रियाफलकरणा जायत इति संटङ्कः, यदि वा प्रकृतपूजा साध्वृजुकक्रियाफलकरणा साधोः ऋजः संयमः स एव ऋजकस्तस्य क्रिया चरणकरणरूपा सैव फलं तत्करोतीति, अथवा साधुः शोभन सानुबन्धत्वात् शेषं पूर्ववत्, सर्वविरतिं प्रापयतीत्यर्थः । यद्वा संयमक्रियायाः फलं निवृत्तिस्तां करोतीति । प्रतिमाशतके तु 'साहुजुगकिरियफलकरणे'ति पाठ उपलभ्यते तथाप्युक्तार्थ एव । साधूनाश्रित्य अवञ्चकयोगानां स्वरूपसूचकाः श्लोका इमे योगदृष्टिसमुच्चयग्रन्थे
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः। तथादर्शनतो योग आद्यावञ्चक उच्यते ।।२१६।। तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ।।२२०।। फलावञ्चकयोगस्तु सद्य एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ।।२२१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org