________________
। ४६
विंशतिर्विंशिकाः ]
अष्टमी पूजाविधिविंशिका टीका-प्रथमा द्रव्यपूजा द्रव्यप्राधान्याद् भवति गृहिणो गृहस्थस्य। न केवलं पिण्डस्थपदस्थरूपातीतावस्थाभेदेनार्हत्स्तोत्ररूपा भावपूजा तथोपशान्तक्षीणमोहसयोगिगुणस्थानकभेदात् प्रतिपत्तिलक्षणा पूजा त्रिविधा, साऽपि द्रव्यपूजाऽपि त्रिविधेति सम्बन्धः । यथा यथा योगाद्यवञ्चकतालक्षणः समाधिर्भवति तथा तथा तेन तेन प्रकारेण भावभेदतो जधन्यमध्यमादिभेदात त्रिविधा त्रिप्रकारा भवति। मतान्तरेण वाऽऽह-कायवचनमनोविशुद्भया काययोगो वाग्योगो मनोयोगो च कायवाग्मनोयोगास्तेषां विशङ्ख्या कायादिदोषपरिहाररूपयोपात्तं द्रव्यं वित्तं तेन करणभूतेन द्रव्यपूजाऽपि त्रिविधा। सम्भूतोपकरणभेदाद्वा प्रभुपूजार्थं सम्भूतानि एकत्रितानि यान्युपकरणानि प्रवरपुष्पादीनि तेषां वक्ष्यमाणरीत्या परिभेदात् विधेति ।।२।। अनन्तरोक्तद्रव्यपूजात्रैविध्यं यथार्थसंज्ञास्वरूपफलनिर्देशपुरस्सरं निरूप्यते
सब्वगुणाहिगविसया नियमुत्तमवत्थुदाणपरिओसा।
कायकिरियापहाणा समंतभद्दा पढमपूया ॥३॥ अक्षरगमनिका-सर्वगुणाधिकविषया नियमोत्तमवस्तुदानपरितोषा कायक्रियाप्रधाना समन्तभद्रा प्रथमा पूजा ।।३।।
सर्वगुणाधिकविषया सर्वैः अखिलैर्गुणैरधिकः अर्हन् देवाधिदेवस्तद्विषया प्रथमा पूजेति सम्बन्धः । कायक्रियाप्रधाना-काययोगसारा, पुनः किंलक्षणा ?नियमोत्तमवस्तुदानपरितोषा नियमाद् अवश्यंतया सदोत्तमवस्तु प्रधानपुष्पादि तद्दानात् परितोषो यस्याः सकाशात् सा तथा। किंफला? समन्तभद्रा विघ्नोपशामकत्वेन सम्प्रतिभद्रत्वाद् भाविभद्रत्वाच्च समन्ताद् भद्रेति यथार्थनामा प्रथमा पूजा। उक्तं च ग्रन्थकृतैव पूजाषोडशके-प्रवरं पुष्पादि सदा, चाद्यायां सेवते तु तद्दाता। सेवते ददातीत्यर्थः, धात्वनेकार्थत्वादिति ।।३।। अथ द्वितीयामाह
बीया उ सब्वमंगलनामा वायकिरियापहाणेसा।
पुबुत्तविसयवत्थुसु ओचित्ताणायणभेएण॥४॥ अक्षरगमनिका-एषा द्वितीया तु सर्वमङ्गलनामा वाक्रियाप्रधाना पूर्वोक्तविषया वस्तूनामौचित्येनाऽऽनयनभेदेन ।।४।।
टीका-एषा ग्रन्थकारहृदयस्थत्वात् प्रत्यक्षा क्रमापेक्षया द्वितीया पुनः तुः पुनरर्थे सर्वमङ्गलनामा अभ्युदयसाधनाद् वाकियाप्रधाना वचनयोगसारा पूर्वोक्तविषया देवाधिदेवार्हद्गता, प्राकृतत्वाद्विभक्तिव्यत्यय इति वस्तूनां प्रवरपुष्पादीनाम् औचित्येन प्रोत्साहकवचनेन समधिकमूल्यार्पणेन वा सेवकादिभिः आनयनभेदेन समानयनप्रकारेण । उक्तं च-आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ।।४|| साम्प्रतं चरमामाह
तइया परतत्तगया सबुत्तमवत्थुमाणसनिओगा।
सुद्धमणजोगसारा विनेया सबसिद्धिफला ॥५॥ अक्षरगमनिका-तृतीया परतत्त्वगता सर्वोत्तमवस्तुमानसनियोगा शुद्धमनोयोगसारा विज्ञेया सर्वसिद्धिफला ।।५।।
टीका-तृतीया क्रममाश्रित्य चरमा परतत्त्वगता परमेश्वरविषया सर्वोत्तमवस्तुमानसनियोगा सर्वोत्तम वस्तु त्रैलोक्यसुन्दरं यत् पारिजातादि पुष्पादि नन्दनवनादिगतं तन्मनसाऽऽपादयति, तदुक्तं च त्रैलोक्यसुन्दरं वि. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org