SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ४८ ] अष्टमी पूजाविधिविंशिका [विंशतिर्विशिकाः अष्टमी पूजाविधिविंशिका अनन्तरं दानविंशिकायां यदुक्तं 'इत्तोच्चिय सेसगुणसिद्धि' त्ति तदविलम्बेन गुणसिद्धिमभिलषता दानादिचतुर्विधधर्मोपदेशको गुणसमुद्रः अर्हन् देव एव पूजनीय इति पूजाविधिविंशिका प्रारभ्यते, तस्याश्चयमाद्या गाथा पूया देवस्स दुहा विनेया दवभावभेएणं। इयरेयरजुत्ता वि हु तत्तेण पहाणगुणभावा ॥१॥ अक्षरगमनिका—पूजा देवस्य तत्त्वेनेतरेतरयुक्तापि प्रधानगौणभावात् खलु द्रव्यभावभेदेन द्विधा विज्ञेया ।।१।। टीका-पूजा सपर्या देवस्य पूजार्हस्याऽर्हतस्तत्त्वेन निश्चयनयाभिप्रायेण इतरेतरयुताऽपि परस्परसङ्कलितापि द्रव्यभावपूजा, तथाहि-गृहस्थानां पुष्पादिद्रव्यपूजा चैत्यवन्दनलक्षणया भावपूजयान्विता भवति । साधूनां च श्रीजिनाज्ञापालनरूपा भावपूजा श्रावकविहितद्रव्यपूजादिदर्शनेन प्रमोदादनुमतिद्वारेण, द्रव्यपूजया सङ्कलिता भवति। तदुक्तं पञ्चवस्तुग्रन्थेऽपि-तंतम्मि वंदणाए पूअणसक्कारहेउमुस्सग्गो। जइणोवि हु निद्दिट्ठो ते पुणदव्वस्थयसरूवे ।।१२११॥ तद्वृत्तिः'तन्त्रे' सिद्धान्ते वन्दनायां पूजनसत्कार हेतुः-एतदर्थमित्यर्थः, कायोत्सर्गो यतेरपि निर्दिष्टः, 'पूयणवत्तियाए सकारवत्तियाए' त्ति वचनात्, तौ पुनः पूजनसत्कारौ द्रव्यस्तवरूपौ, नान्यरूपाविति गाथार्थः ।।११।। पूजाविधिसदुपदेशदानेन च कारणतोऽपि द्रव्यपूजया समन्विताऽस्ति, यदुक्तं च ललितविस्तरावृत्तौ-साधोः स्वकरणमधिकत्य द्रव्यस्तवप्रतिषेधः. न पुनः सामान्येन, तदनुमतिभावात्। भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः,-'साधु शोभनमिदमेतावजन्मफलमविरतानामि'तिवचनलिङगम्यम। तदनमतिरियमः उपदेशदानतः कारणापत्तेश्च । ददाति च भगवतां पूजासत्कारविषयं सदुपदेशं 'कर्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमि'तिवचनसन्दर्भेण । तत्कारणमेतत् । अनवद्यं च तद् दोषान्तरनिवृत्तिद्वारेण । अयमत्र प्रयोजकोंऽशः, तथाभावतः प्रवृत्तेः उपायान्तराभावात्। नागभयसुतगर्ताकर्षणज्ञातेन भावनीयमेतत् तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः, वचनप्रामाण्यात्, इत्थमेवेष्टसिद्धेः, अन्यथाऽयोगादिति। अनन्तरोक्तनीत्येतरेतरयुक्ताऽपि व्यवहारनयाभिप्रायेण प्रधानगौणभावाद् मुख्योपसर्जनभावादेव हु प्राकृतत्वादवधारणे द्रव्यभावभेदेन द्रव्यपूजा भावपूजा चेति बिधा द्विप्रकारा, तथाहि-श्रमणोपासकानां द्रव्यप्राधान्यादेव पुष्पादिद्रव्यपूजा प्रधाना भावपूजा च गौणा, यतीनां च श्रीजिनाज्ञापालनलक्षणा भावपूजा प्रधाना पुष्पादिद्रव्यपूजा च गौणा विज्ञेया समवसेया। तदुक्तं च दुविहा जिणिंदपूआ दव्वे भावे य, तत्थ दव्वंमि दव्वेहिं जिणपूआ जिनाणापालनं भावे ।।१।। अथ द्रव्यपूजामेव विस्तरत आह पढमा गिहिणो सा वि य तहा तहा भावभेयओ तिविहा। कायवयमणविसुद्धी सम्भूओगरणपरिभेया॥२॥ अक्षरगमनिका-प्रथमा गृहिणः साऽपि च तथा तथाभावभेदतस्त्रिविधा कायवचनमनोविशुद्ध्या सम्भूतोपकरणभेदात् ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy