________________
विंशतिर्विशिकाः सप्तमी दानविंशिका
[ ४७ दठूण पाणिनिवहे, भीमे भवसायरंमि दुक्खत्तं। अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ।।१।। श्रीभगवत्यां च श्राद्धवर्णने–'अवंगुअदुवारा' इति विशेषणेन भिक्षुकादिप्रवेशार्थं सर्वदाऽप्यपावृतद्वारा इत्युक्तम् । दुर्भिक्षादौ दीनोद्धारः प्रवचनप्रभावनाहेतुत्वाद् विशेषफलः। वैक्रमीये १३१५ तमेऽब्दे महादुर्भिक्षे साधुर्जगडुादशोत्तरशतसत्रागारैर्दानं ददौ। ततो दयादानं भोजनावसरे विशिष्य कार्यमिति ।।१८।। अधुनौघतोऽपि दानधर्मस्य प्राधान्यमाह
धम्मस्साइपयमिणं जम्हा सीलं इमस्स पजंते।
तबिरयस्सावि जओ नियमा सनिवेयणा गुरुणो॥१६॥ अक्षरगमनिका-यस्मात् शीलमस्य पर्यन्ते, यतश्च तद्विरतस्यापि नियमाद् गुरोः स्वनिवेदना तस्माद् धर्मस्याऽऽदिपदमिदम् ||१६||
टीका-यस्मात् कारणात् शीलं विरतिरूपम् अस्य दानस्य पर्यन्ते पश्चाद् यतो यस्माच्च तद्विरतस्यापि द्रव्यदानविरतस्य साधोरपि यदि वा तद् दानं विरतस्यापि साधोरपि नियमादवश्यम् किंस्वरूपम् ? गुरोराचार्यस्य स्वनिवेदना-प्रत्यहं 'बहुवेल संदिसावेह' इत्यादिना स्वस्याऽऽत्मनो निवेदना समर्पणम् एतत्स्वयमानीतवस्त्रपात्रपिण्डाधुपलक्षणम् तस्माद् धर्मस्य मोक्षफलस्याऽऽदिपदं प्रथमसोपानं प्रथमस्थानं पीठिकालक्षणं वेदं दानम्, इत एव धर्मप्रारम्भ इति। किञ्च-त्यागलक्षणदानधर्मस्य चतुर्विधेऽपि धर्मेऽनुस्यूतत्वात्, तथाहि-दाने धनत्यागः शीले भोगत्यागस्तपसि रसत्यागो भावे च रागादित्यागः । इदं तु ध्येयम्-दानशीलतपोभावानामित्थं क्रम उत्पत्तिमाश्रित्य ज्ञेयः । दुष्करतया प्राधान्यात्तु पश्चानुपूर्व्या क्रमश्चार्यतो दाने बाह्यानित्यद्रव्यस्य, शीले समीपवर्तिकुटुम्बस्य तपसि समीपतरदेहममत्वस्य ततोऽपि भावे च समीपतममनःप्रभृतिसर्वस्वस्य त्यागः । एवं भावधर्मे त्यागस्य पराकाष्ठा प्रादुर्भवति । अत एव चारित्री धनस्वजनदेहमनोममत्वमोचनेन गुरुं प्रति सर्वथा समर्पितो भवति। ततो रागादिक्षयस्ततो मुक्तिः। यदागमः- एयं कुसलस्स दंसणं, तद्दिट्ठिए, तप्परक्कारे, तस्सन्नी. तन्निवेसणे।। आ० १-५-६-१६८|॥१६॥ अथ दानोपदेशदानद्वारोपसंहरन्नाह
तम्हा सत्तऽणुरूवं अणुकंपासंगएण भव्वेण। अणुचिट्ठियब्वमेयं इत्तोचिय सेसगुणसिद्धिः॥२०॥
॥ इति दानविंशिका सप्तमी ॥ अक्षरगमनिका-इत एव शेषगुणसिद्धिस्तस्मादनुकम्पासङ्गतेन भव्येन शक्त्यनुरूपमनुष्ठातव्यमेतत् ।।२०॥
टीका-यत इत एव दानादेव शेषगुणसिद्धिः सम्यग्दर्शनादिनिर्वाणगमनपर्यवसानगुणप्राप्तिस्तस्मात् कारणाद् अनुकम्पासतेन करुणान्वितेन भव्येन भाविभद्रसत्त्वेन शक्त्यनरूपं यथासामर्थ्यम अनष्ठातव्यं विधातव्यम एतद् दानम्। श्रूयते हि श्रीऋषभस्वामिजीवधन्यसार्थवाहप्रभृतीनां सुपात्रदानत एव सम्यक्त्वप्राप्तिः। अनुकम्पादानेन च श्रीशान्तिजिनजीवमेघरथनृपः परम्परात एकस्मिन्नेव भवे चक्रितीर्थकृत्पदभोगी बभूव । श्रीजिनभवनमण्डितवसुधः श्रीसम्प्रतिसम्राट् श्रीजिनशासनप्रभावकोऽभवत्। किं बहुना ? श्रीजिनभवनबिम्बाऽऽगमचतुर्विधसङ्घस्वरूपायां सप्तक्षेत्र्यां यदुप्यते धनं तज्जायतेऽनन्तगुणं मोक्षफलमिति ॥२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org