________________
४६ ] सप्तमी दानविंशिका
[ विंशतिर्विशिकाः तत् कुर्याद् येनाऽज्ञजनो धर्म न खिसेतेति। पुनः किंलक्षणः ? अदुःस्थपरिजनवर्गो न विद्यते दुःस्थः खिन्नमनाः परिजनवर्गो यस्य स तथा, धर्मकार्ये प्रवृत्तेन विशेषतः पराऽप्रीतिः परिहार्येति । पुनः कथम्भूतः ? सम्यग्दयालुच ज्ञातभवस्थितिदौःस्थ्यात् सर्वत्राविशेषेण कृपालुः, चः समुच्चये एतस्य धर्मोपग्रहकरदानस्य चः पुनरर्थे दाता प्रयच्छक इति ।।१६।। अनन्तरं धर्मोपग्रहकरदानस्य दाता सम्यग्दयालुरुक्तः अधुना तस्यानुकम्पादानमपि धर्मोपग्रहहेतुर्जायत इत्युच्यते
अणुकंपादाणं पि य अणुकंपागोयरेसु सत्तेसु।
जायइ धम्मोवग्गहहेऊ करुणापहाणस्स ॥१७॥ अक्षरगमनिका-अनुकम्पागोचरेषु च सत्त्वेष्वनुकम्पादानमपि करुणाप्रधानस्य जायते धर्मोप ग्रहहेतुः ।।१७।।
टीका -अनुकम्पागोचरेषु करुणास्पदेषु चः पुनरर्थे सत्त्वेषु जीवेषु न केवलं ज्ञानदानादीनि अनुकम्पादानमपि पूर्वोक्तस्वरूपं करुणाप्रधानस्याऽनुक्रोशपरस्य जायते भवति धर्मोपग्रहहेतुः प्रवचनप्रशंसाद्वारेणाऽनेकेषां धर्मबीजाधानादिकारणमिति ।।१७।। ततः किमित्याह
ता एयं पसत्थं तित्थयरेणावि भयवया गिहिणा।
सयमाइनं दियदेवदूसदाणेण गिहिणो वि॥१८॥ अक्षरगमनिका तस्मादेतदपि प्रशस्तं भगवता तीर्थकरेणापि गृहिणा स्वयमाचीर्णं तथा गृहिणोऽपि द्विजस्य देवदूष्यदानेन ।।१८||
टीका-यस्माद् धर्मोपग्रहेतुस्तस्मात् कारणाद् एतदपि अनुकम्पादानमपि प्रशस्तं श्लाघ्यम् । किञ्च-एतन्न केवलं धर्मिजनेनाचीर्णं भगवता विशुद्धमतिश्रुतावधिज्ञानयुतेन तीर्थंकरेणापि ज्ञानादिभावतीर्थप्रवर्तकधर्मनायकेनापि गृहिणा गृहस्थपर्याये वर्तमानेन सांवत्सरिकदानव्याजेन स्वयमात्मना-ऽऽचीर्णमनुष्ठितम्, तदुक्तं
धर्माङ्गत्वं स्फुटीकर्तुं दानस्य भगवानपि। अत एव व्रतं गृह्णन् ददौ संवत्सरं वसु ।।१।। अपि च—आस्तां गृहिणा प्रव्रजितेनापि भगवताऽऽस्तां संयतस्य गृहिणोऽपि पितुर्मित्रगृहस्थस्यापि बिजस्य ब्राह्मणस्य देवदूष्यदानेन महाभिनिष्क्रमणावसरशक्रोपनीतदिव्यवस्त्रदानेनाऽऽचीर्णमेतत्। ननु साधोरप्येतदापत्तिरिति चेत्, उच्यते-पुष्टालम्बनमाश्रित्य भगवतो दृष्टान्ताद् युगप्रवरसुहस्तिना सम्प्रतिमहाराजजीवरङ्कस्य यथा दत्तं तथा दानेऽदोषः अनुकम्पानिमित्तत्वात् । तदुक्तं साधुनाऽपि दशाभेदं, प्राप्यैतदनुकम्पया। दत्तं ज्ञाताद्भगवतो रङ्कस्येव सुहस्तिना ।।१।। (द्वा. द्वा. १-१०) न चैतदापवादिकं यतिदानमधिकरणं विशुद्धाशयात्, अपि तु गुणस्थानं गुणान्तरनिबन्धनम् । श्राद्धभोजनविधावप्युक्तं तथा ददात्यौचित्येनाऽन्येभ्योऽपि द्रमकादिभ्यः । न प्रत्यावर्तयति तानिराशान् । न कारयति कर्मबन्धम् । न गर्हयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणमित्यादि । आगमेप्युक्तं
नैव द्वारं पिहावेइ, भुंजमाणो सुसावओ।
अनुकंपा जिणिंदेहिं, सड्डाण न निवारिआ।।१।। अत्रैवानन्तरविंशिकायामप्युक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org