SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विंशतिर्विंशिकाः ] सप्तमी दानविंशिका [ ४५ भोजनवेलायां रोगिणो व्याधितस्य पथ्यमिव हितमिव भवरोगनाशकत्वात् । ज्ञानपूर्वकत्वेन हि सुपात्रदानस्य मुनिश्राद्धसम्यग्दृशां गुणाऽनुमोदनद्वारेण बोधिप्राप्त्या मोक्षफलत्वादिति ||१४|| किञ्च - विधिद्रव्यदातृपात्रविशेषाद् दानविशेष इति सुपात्रदानविधिमाह— अक्षरगमनिका - तथोचिते सुपरिशुद्धम् ||१५|| तथा सद्धासकारजुयं सकमेण तहोचियम्मि कालम्मि । अन्नाणुवघाएणं वयणा एवं सुपरिसुद्धं ॥ १५ ॥ कालेऽन्यानुपघातेन वचनात् टीका — यथा बहुगुणं स्यात् तथोचित्ते काले - भोजनवेलायाम्, यदुक्तं— कालेऽल्पमपि लाभाय, नाकाले कर्म बह्वपि । वृष्टौ वृद्धिः कणस्यापि कणकोटिर्वृथाऽन्यथा ॥ १ ॥ पहसंत गिलाणेसु, आगमगाहिसु तह य कयलोए । उत्तरपारणगंमि अ, दिन्नं सुबहुफलं होइ || १ || दाता ||१६|| श्रद्धासत्कारयुतं सक्रमेणैवं ( श्रा. वि. प्र. ) ‘पहसंत' पथश्रान्ते। तथा 'कयलोए' कृतलोचे । अन्यानुपघातेन भर्तव्यानुपरोधेन तथौचित्येन याचकादिभ्योऽपि दानेन वचनात् श्रीजिनोक्तविधिना - सभक्ति साधून् निमन्त्र्य तैः सह गृहमायाति स्वयमागच्छतो वा मुनीन् दृष्ट्वा संमुखं गमनादिकं करोतीत्यादिना श्रद्धासत्कारयुतं सत्पात्रं बहुपुण्यैरवाप्यते यदि वाऽऽत्मानुग्रहार्थमेवैतदित्यादरेण तथाऽभ्युत्थानाऽऽसनप्रदानेत्यादिसत्क्रिययाऽन्वितं सक्रमेण भिक्षादोषाद्यदूषितान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण यदि वा दुर्लभोत्तमवस्तुक्रमेण, एवमनन्तरोक्तनीत्या तथा वक्ष्यमाणसुपात्रदानदोषैरदूषितं भूषणैश्च भूषितं दानं दत्ते ततो स्वगृहद्वारादि यावदनुव्रज्य निवर्तते । उक्तं च अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चाऽपि सद्दानं दूषयन्त्यमी ॥१॥ आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रदानभूषणपञ्चकम् ||१|| (श्रा. वि. प्र.) तथा तदवसराद्यायातसाधर्मिकान् सह भोजयति तेषामपि पात्रत्वात् । एवं दत्तं सुपरिशुद्धम् अतिशयेनानवद्यं विज्ञेयमित्यध्याहार्य दिव्यौदारिकाद्यद्भुतभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यादिसंयोगप्राप्तिपूर्वकनिर्विलम्बनिर्वाणशर्मप्राप्तिफलत्वादिति ||१५|| अथाऽस्य सुपात्रदानस्याधिकारिदातृस्वरूपमाह Jain Education International ( द्वा. द्वा. १-८ ) गुरूणाऽणुन्नायभरो नाओवज्जियधणो य एयस्स । दाया अदुत्थपरियणवग्गो सम्मं दयालू य ॥ १६ ॥ अक्षरगमनिका —— गुरुणाऽनुज्ञातभरो न्यायोपार्जितधनः अदुःस्थपरिजनवर्गः सम्यग्दयालुश्चैतस्य च टीका — गुरुणा पितृपितामहादिनाऽनुज्ञातभरो न्यस्तकुटुम्बभरणभारः पुनः कीदृश: ? न्यायोपार्जितधनो व्यवहारशुद्धयार्जितवैभवो यतो व्यवहारशुद्धिरेव धर्मस्य मूलम्, तथाहि - व्यवहारशुद्ध्या अर्थशुद्धिस्तत आहारशुद्धिस्ततो देहशुद्धिस्ततो धर्मयोग्यता ततो यद्यत्कृत्यं करोति तत्तत् सफलं भवति । अन्यथा यत् करोति तदफलं भवति । व्यवहारशुद्धिरहितो धर्मं हीलयति ततः स्वपराऽबोधिः । तस्मात् For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy