Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 58
________________ विंशतिर्विशिकाः सप्तमी दानविंशिका [ ४७ दठूण पाणिनिवहे, भीमे भवसायरंमि दुक्खत्तं। अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ।।१।। श्रीभगवत्यां च श्राद्धवर्णने–'अवंगुअदुवारा' इति विशेषणेन भिक्षुकादिप्रवेशार्थं सर्वदाऽप्यपावृतद्वारा इत्युक्तम् । दुर्भिक्षादौ दीनोद्धारः प्रवचनप्रभावनाहेतुत्वाद् विशेषफलः। वैक्रमीये १३१५ तमेऽब्दे महादुर्भिक्षे साधुर्जगडुादशोत्तरशतसत्रागारैर्दानं ददौ। ततो दयादानं भोजनावसरे विशिष्य कार्यमिति ।।१८।। अधुनौघतोऽपि दानधर्मस्य प्राधान्यमाह धम्मस्साइपयमिणं जम्हा सीलं इमस्स पजंते। तबिरयस्सावि जओ नियमा सनिवेयणा गुरुणो॥१६॥ अक्षरगमनिका-यस्मात् शीलमस्य पर्यन्ते, यतश्च तद्विरतस्यापि नियमाद् गुरोः स्वनिवेदना तस्माद् धर्मस्याऽऽदिपदमिदम् ||१६|| टीका-यस्मात् कारणात् शीलं विरतिरूपम् अस्य दानस्य पर्यन्ते पश्चाद् यतो यस्माच्च तद्विरतस्यापि द्रव्यदानविरतस्य साधोरपि यदि वा तद् दानं विरतस्यापि साधोरपि नियमादवश्यम् किंस्वरूपम् ? गुरोराचार्यस्य स्वनिवेदना-प्रत्यहं 'बहुवेल संदिसावेह' इत्यादिना स्वस्याऽऽत्मनो निवेदना समर्पणम् एतत्स्वयमानीतवस्त्रपात्रपिण्डाधुपलक्षणम् तस्माद् धर्मस्य मोक्षफलस्याऽऽदिपदं प्रथमसोपानं प्रथमस्थानं पीठिकालक्षणं वेदं दानम्, इत एव धर्मप्रारम्भ इति। किञ्च-त्यागलक्षणदानधर्मस्य चतुर्विधेऽपि धर्मेऽनुस्यूतत्वात्, तथाहि-दाने धनत्यागः शीले भोगत्यागस्तपसि रसत्यागो भावे च रागादित्यागः । इदं तु ध्येयम्-दानशीलतपोभावानामित्थं क्रम उत्पत्तिमाश्रित्य ज्ञेयः । दुष्करतया प्राधान्यात्तु पश्चानुपूर्व्या क्रमश्चार्यतो दाने बाह्यानित्यद्रव्यस्य, शीले समीपवर्तिकुटुम्बस्य तपसि समीपतरदेहममत्वस्य ततोऽपि भावे च समीपतममनःप्रभृतिसर्वस्वस्य त्यागः । एवं भावधर्मे त्यागस्य पराकाष्ठा प्रादुर्भवति । अत एव चारित्री धनस्वजनदेहमनोममत्वमोचनेन गुरुं प्रति सर्वथा समर्पितो भवति। ततो रागादिक्षयस्ततो मुक्तिः। यदागमः- एयं कुसलस्स दंसणं, तद्दिट्ठिए, तप्परक्कारे, तस्सन्नी. तन्निवेसणे।। आ० १-५-६-१६८|॥१६॥ अथ दानोपदेशदानद्वारोपसंहरन्नाह तम्हा सत्तऽणुरूवं अणुकंपासंगएण भव्वेण। अणुचिट्ठियब्वमेयं इत्तोचिय सेसगुणसिद्धिः॥२०॥ ॥ इति दानविंशिका सप्तमी ॥ अक्षरगमनिका-इत एव शेषगुणसिद्धिस्तस्मादनुकम्पासङ्गतेन भव्येन शक्त्यनुरूपमनुष्ठातव्यमेतत् ।।२०॥ टीका-यत इत एव दानादेव शेषगुणसिद्धिः सम्यग्दर्शनादिनिर्वाणगमनपर्यवसानगुणप्राप्तिस्तस्मात् कारणाद् अनुकम्पासतेन करुणान्वितेन भव्येन भाविभद्रसत्त्वेन शक्त्यनरूपं यथासामर्थ्यम अनष्ठातव्यं विधातव्यम एतद् दानम्। श्रूयते हि श्रीऋषभस्वामिजीवधन्यसार्थवाहप्रभृतीनां सुपात्रदानत एव सम्यक्त्वप्राप्तिः। अनुकम्पादानेन च श्रीशान्तिजिनजीवमेघरथनृपः परम्परात एकस्मिन्नेव भवे चक्रितीर्थकृत्पदभोगी बभूव । श्रीजिनभवनमण्डितवसुधः श्रीसम्प्रतिसम्राट् श्रीजिनशासनप्रभावकोऽभवत्। किं बहुना ? श्रीजिनभवनबिम्बाऽऽगमचतुर्विधसङ्घस्वरूपायां सप्तक्षेत्र्यां यदुप्यते धनं तज्जायतेऽनन्तगुणं मोक्षफलमिति ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148