Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
विंशतिर्विंशिकाः ]
सप्तमी दानविंशिका
[ ४५
भोजनवेलायां रोगिणो व्याधितस्य पथ्यमिव हितमिव भवरोगनाशकत्वात् । ज्ञानपूर्वकत्वेन हि सुपात्रदानस्य मुनिश्राद्धसम्यग्दृशां गुणाऽनुमोदनद्वारेण बोधिप्राप्त्या मोक्षफलत्वादिति ||१४|| किञ्च - विधिद्रव्यदातृपात्रविशेषाद् दानविशेष इति सुपात्रदानविधिमाह—
अक्षरगमनिका - तथोचिते
सुपरिशुद्धम् ||१५||
तथा
सद्धासकारजुयं सकमेण तहोचियम्मि कालम्मि । अन्नाणुवघाएणं वयणा एवं सुपरिसुद्धं ॥ १५ ॥ कालेऽन्यानुपघातेन
वचनात्
टीका — यथा बहुगुणं स्यात् तथोचित्ते काले - भोजनवेलायाम्, यदुक्तं— कालेऽल्पमपि लाभाय, नाकाले कर्म बह्वपि ।
वृष्टौ वृद्धिः कणस्यापि कणकोटिर्वृथाऽन्यथा ॥ १ ॥
पहसंत गिलाणेसु, आगमगाहिसु तह य कयलोए । उत्तरपारणगंमि अ, दिन्नं सुबहुफलं होइ || १ ||
दाता ||१६||
श्रद्धासत्कारयुतं सक्रमेणैवं
( श्रा. वि. प्र. )
‘पहसंत' पथश्रान्ते। तथा 'कयलोए' कृतलोचे । अन्यानुपघातेन भर्तव्यानुपरोधेन तथौचित्येन याचकादिभ्योऽपि दानेन वचनात् श्रीजिनोक्तविधिना - सभक्ति साधून् निमन्त्र्य तैः सह गृहमायाति स्वयमागच्छतो वा मुनीन् दृष्ट्वा संमुखं गमनादिकं करोतीत्यादिना श्रद्धासत्कारयुतं सत्पात्रं बहुपुण्यैरवाप्यते यदि वाऽऽत्मानुग्रहार्थमेवैतदित्यादरेण तथाऽभ्युत्थानाऽऽसनप्रदानेत्यादिसत्क्रिययाऽन्वितं सक्रमेण भिक्षादोषाद्यदूषितान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण यदि वा दुर्लभोत्तमवस्तुक्रमेण, एवमनन्तरोक्तनीत्या तथा वक्ष्यमाणसुपात्रदानदोषैरदूषितं भूषणैश्च भूषितं दानं दत्ते ततो स्वगृहद्वारादि यावदनुव्रज्य निवर्तते । उक्तं च
अनादरो विलम्बश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चाऽपि सद्दानं दूषयन्त्यमी ॥१॥ आनन्दाश्रूणि रोमाञ्चो, बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रदानभूषणपञ्चकम् ||१|| (श्रा. वि. प्र.) तथा तदवसराद्यायातसाधर्मिकान् सह भोजयति तेषामपि पात्रत्वात् । एवं दत्तं सुपरिशुद्धम् अतिशयेनानवद्यं विज्ञेयमित्यध्याहार्य दिव्यौदारिकाद्यद्भुतभोगाभीष्टसर्वसुखसमृद्धिसाम्राज्यादिसंयोगप्राप्तिपूर्वकनिर्विलम्बनिर्वाणशर्मप्राप्तिफलत्वादिति ||१५|| अथाऽस्य सुपात्रदानस्याधिकारिदातृस्वरूपमाह
Jain Education International
( द्वा. द्वा. १-८ )
गुरूणाऽणुन्नायभरो नाओवज्जियधणो य एयस्स ।
दाया अदुत्थपरियणवग्गो सम्मं दयालू य ॥ १६ ॥
अक्षरगमनिका —— गुरुणाऽनुज्ञातभरो न्यायोपार्जितधनः अदुःस्थपरिजनवर्गः सम्यग्दयालुश्चैतस्य च
टीका — गुरुणा
पितृपितामहादिनाऽनुज्ञातभरो न्यस्तकुटुम्बभरणभारः
पुनः कीदृश: ? न्यायोपार्जितधनो व्यवहारशुद्धयार्जितवैभवो यतो व्यवहारशुद्धिरेव धर्मस्य मूलम्, तथाहि - व्यवहारशुद्ध्या अर्थशुद्धिस्तत आहारशुद्धिस्ततो देहशुद्धिस्ततो धर्मयोग्यता ततो यद्यत्कृत्यं करोति तत्तत् सफलं भवति । अन्यथा यत् करोति तदफलं भवति । व्यवहारशुद्धिरहितो धर्मं हीलयति ततः स्वपराऽबोधिः । तस्मात्
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148