Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 54
________________ विंशतिर्विशिकाः ] सप्तमी दानविंशिका [ ४३ तओ दया' इत्यनेन गीतार्थस्याधिकारित्वमावेदितं भवति तथा तत्कुलस्थितिसमाश्रितेन तस्य जिनस्य कुलं गुरुकुलं गुरोः श्रीजिनोत्तराधिकारित्वात् तस्य स्थितिर्मर्यादा समाचारीति यावत् तस्याः समाश्रितेन समाश्रयणेन, अनेन च गीतार्थनिश्रितानामप्यधिकारित्वं निवेदितं चः समुच्चये उत्तमत्वं प्राधान्यं विज्ञेयं बोद्धव्यं नान्यथा गीतार्थत्वं गीतार्थनिश्रां च विहाय नोत्तमत्वम् । यदागमः - गीयत्थो य विहारो, बीओ गीयत्थमीसओ । समणुन्नाओ सुसाहूणं, नत्थि तइयं वियप्पणं ।।१।। ( महा नि ६-१३३) ।।८।। एतदेवाभ्युच्चयति— दाऊणेयं जो पुण आरंभाइसु पवत्तए मूढो । भावदरिद्दो नियमा दूरे सो दाणधम्माणं ॥६॥ अक्षरगमनिका — दत्त्वैतद् यो मूढः पुनरारम्भादिषु प्रवर्तते स भावदरिद्रो नियमात् दानधर्माणां दूरे ॥६॥ टीका- - दत्त्वा विश्राण्यैतद् अभयदानं सर्वविरतिमङ्गीकृत्येति भावः यः अनिर्दिष्टनामा मूढो बालिशः पुनस्तदूर्ध्वम् आरम्भादिषु हिंसापरिग्रहादिषु प्रवर्तते प्रवृत्तिं वितनोति स मूढो भावदरिद्रो विरत्या तत्कारणभूतया च समतया विकलत्वात् परमार्थदुर्गतो नियमाद् अवश्यं दानधर्माणां ज्ञानाभयादिदानलक्षणधर्माणां दूरे विप्रकृष्ट इति ||६|| अथ फलनिरूपणद्वारेणाऽधिकारित्वमाविष्करोति— इहपरलोगेसु भयं जेण न संजायए कयाइयवि । जीवाणं तक्कारी जो सो दाया उ एयस्स ॥१०॥ अक्षरगमनिका - येनेहपरलोकेषु भयं न संजायते कदाचिदपि जीवानां तत्कारी यः स दाता त्वेतस्य ॥ १० ॥ टीका — येनाऽभयदानेन इहपरलोकेषु अत्र परत्र च भावानुष्ठानस्य सानुबन्धत्वाद् अथवा प्राकृतत्वाद्विभक्तिव्यत्यय इति इहपरलोकाभ्यां मनुष्यस्य मनुष्याद्भयम् इहलोकभयमित्याद्युक्तलक्षणाभ्यां दातुर्भयं साध्वसं न नैव संजायते भवति कदाचिदपि कस्मिञ्चिदपि काले, अयं भावः - 'दत्तं लभ्यत' इत्यभयदानस्य दाता भयानामभाजनं भवति, यदागमोऽपि सामाइयमाहु तस्स जं, जो अप्पाण भयं न दंसए। (सूत्रकृताङ्ग २-२-११७) तत्कारी अभयङ्करो जीवानां सत्त्वानां यः पूर्ववत् स सर्वविरतिधर एव दाता प्रयच्छक एतस्याऽभयदानस्य तुरवधारणे भिन्नक्रमश्च ||१०|| अनन्तरं सर्वविरतिधरः अभयदानस्य दाता निरूपितः । अधुना देशविरतिधरमाह इय देसओ वि दाया इमस्स एयारिसो तहिं विसए । इहरा दिनुद्दालणपायं एयस्स दाणं ति ॥११॥ अक्षरगमनिका — इति देशतोऽपि दाताऽस्यैतादृशस्तत्र विषये, इतरथा दत्तोद्दालनप्रायं दानमेतस्येति ॥ ११ ॥ Jain Education International टीका — इति एवं न केवलं सर्वतो दाता देशतोऽपि देशविरतिधरोऽपि दाता प्रयच्छकः अस्याऽभयदानस्यैतादृशः श्रीजिनवचनज्ञानयोगेन तथा प्रस्तावाच्च श्रावककुलमर्यादासमाश्रयणेनोत्तमः स्थिरप्रतिज्ञश्च तत्र विषये प्रत्याख्यातत्रसकायगोचरेऽनुपालनतः स्थावरकायविषये च भावतः अनुकम्पापरः सर्वविरतिमनोरथत्वात् । इतरथा प्रत्याख्यातस्याननुपालनेऽप्रत्याख्यातविषये चानुकम्पाऽभावे दत्तोद्दालनप्रायं For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148