Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 53
________________ ४२ ] सप्तमी दानविंशिका [विंशतिर्विशिकाः धर्मकथा कार्येत्युच्यते कोऽयं पुरुषः कञ्च देवताविशेषं नत इत्याद्यालोच्य धर्मकथा कार्या। उक्तं च केयं पुरिसे कं च नए ? इत्यादि (आचाराङ्गसूत्रम्)। अतः श्रोतृभेदेन देशनाभेदः कर्तव्य इति स्थितम् ।।५।। ज्ञानस्य फलं विरतिरिति ज्ञानदानानन्तरं विरतिलक्षणमभयदानमाह विनेयमभयदाणं परमं मणवयणकायजोगेहिं। जीवाणमभयकरणं सव्वेसिं सबहा सम्मं ॥६॥ अक्षरगमनिका-सर्वेषां जीवानां मनोवचनकाययोगैः सर्वथा सम्यगभयकरणं परममभयदानं विज्ञेयम् ।।६।। टीका-सर्वेषां समस्तानां सूक्ष्मबादरभेदभिन्नानां जीवानां सत्त्वानां मनोवचनकाययोगैः मनोवाक्कायव्यापारैः सर्वथा करणकारणानुमतिभेदेन सम्यक् अरक्तद्विष्टेनाऽऽत्मोपमया अभयकरणं भयानामभावः अभयं तस्य करणं, भयानि सप्त, तद्यथा-१.मनुष्यस्य मनुष्याद्भयम् इहलोकभयं २.मनुष्यस्य देवादेर्भयं परलोकभयं ३.धनादिग्रहणाद्भयम् आदानभयं ४.बाह्यनिमित्तनिरपेक्षं भयम् अकस्माद्भयम् ५.आजीविकाभयं ६.मरणभयम् ७.अपयशोभयं चेति, परमं सर्वश्रेष्ठम् अभयदानम् अभयम् उक्तस्वरूपं तस्य दानं परमकरुणालक्षणं विज्ञेयं बोद्धव्यमिति ।।६।। अनन्तरोक्तस्याभयदानस्योत्तमत्वान्नानुत्तमस्तद्दातुं वानुपालयितुं तरतीत्याह उत्तममेयं जम्हा तम्हा णाणुत्तमो तरइ दाउं। अणुपालिङ व, दिनं पि हंति समभावदारिदे ॥७॥ अक्षरगमनिका-यस्मादुत्तममेतत्तस्मादनुत्तम एतद्दातुमनुपालयितुं च न तरति। समभावदारिने दत्तमपि हन्ति ॥७॥ टीका-यस्मात् कारणाद् उत्तमं सर्वोत्कृष्टम् एतद् अभयदानं तस्मात् कारणाद् अनुत्तम उत्तमव्यतिरिक्तः अविरतः पुरुष एतत् प्रकृतमभयदानं दातुं विश्राणयितुं तथाऽनुपालयितुं दानादूर्ध्वं तत्परिणाम रक्षयितुं चः समुच्चये न नैव तरति पारयति। किञ्च- समभावदारिये समतादौर्गत्ये सति दत्तमपि वितीर्णमपि हन्ति नाशयति लुप्यतीति यावद् यतः सर्वत्राऽरक्तद्विष्टसमभावेनैवैतत् सम्यक् पालयितु शक्यं नान्यथा । एतदुक्तं भवति-तत्त्ववेत्ता भवभावाद्विरक्तः सर्वत्राऽरक्तद्विष्ट: समतासमृद्धो ह्युत्तमः पुरुषः अभयदानस्य दाताऽनुपालयिता च भवति। तदुक्तम् अण्णो देहातो अहं, नाणत्तं जस्स उवलद्धं । सो किंचि आहिरिकं, न कुणदि देहस्स भंगे वि ।।१।। 'आहिरिकं' न ह्रीर्लज्जा यस्य सः अहीकस्तस्य भाव आह्रीक्यं संयमविलोपस्तन्न करोतीत्यर्थः ॥७॥ एतदेव भावयति जिणवयणनाणजोगेण तकुलठिईसमासिएणं च। विनेयमुत्तमत्तं न अनहा इत्थ अहिगारे॥८॥ अक्षरगमनिका-अत्राधिकारे जिनवचनज्ञानयोगेन तत्कुलस्थितिसमाश्रितेन चोत्तमत्वं विज्ञेयं नान्यथा ||८|| टीका-अत्र अभयदानविषयकेऽधिकारे प्रस्तावे जिनवचनज्ञानयोगेन श्रुतज्ञानोपयोगेन ‘पढमं नाणं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148