Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 52
________________ सप्तमी दानविंशिका [ ४१ अक्षरगमनिका — एतस्य ग्राहकोऽपि शुश्रूषासंयुक्तो विज्ञेयः । सिराऽभावे खननादेव कूपे जलं न भवति ॥ ३॥ टीका — एतस्य ज्ञानदानस्य न केवलमुक्तस्वरूपो दाता ग्राहकोऽपि प्रतीच्छकोऽपि शुश्रूषासंयुक्तः श्रवणेच्छासमन्वितो विज्ञेयः अवगन्तव्यः । विपर्यये यद्भवति तद्दृष्टान्तपुरस्सरमाह- सिराऽभावे अम्भःस्रोतोऽभावे पृथिव्यां खननादेव अवदारणमात्रात् कूपेऽवटे जलं प्रतीतं न नैव भवति जायते, तथैव श्रोतरि शुश्रूषाऽभावे श्रवणमात्रात् ज्ञानपरिणतिर्न जायते । तदुक्तम् विंशतिर्विशिकाः ] बोधाम्भः स्रोतसश्चैषा, सिरातुल्या सतां मता । अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ १ ॥ (यो. दृ. ५३) ३॥ अथ दानविधिमाह— ओहेण वि उवएसो आयरिएणं विभागसो देओ । सामाइ धम्मजणओ महुरगिराए विणीयस्स ॥४॥ अक्षरगमनिका — आचार्येण मधुरगिरा सामायिकधर्मजनक उपदेशो विनीतायौघेनाऽपि विभागशो देयः ॥ ४ ॥ टीका- आचार्येण अनुयोगाचार्येण धर्मोपदेशकेनेतियावद् मधुरगिरा कर्णप्रियवाण्या सामायिक धर्मजनकः सर्वविरतिदेशविरत्यादिपरिणामाविर्भावक उपदेशो धर्मकथालक्षणा देशना विनीताय वक्ष्यमाणलक्षणविनयादिगुणसम्पन्नाय ओघेनाऽपि उत्सर्गेणाऽपि विभागशो बालमध्यमपण्डितभेदाद् यथाग्राहकं देयो दातव्यः । ननु 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ, जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ' इत्याचाराङ्गसूत्रप्रामाण्यात् श्रोतृभेदेनोपदेशभेदो न युक्त इति चेत्, उच्यते— इदं सूत्रोक्तं वक्तुर्निरीहताऽऽविर्भावकं न तु श्रोतृविवेचननिषेधकम् । उक्तं च- यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ।। द्वा. द्वा. (२ - १) ||४|| श्रोतृविवेकमकृत्वोपदेशदाने दोषमाह - अविणीयमाणवंतो किलिस्सई भासई मुसं चेव । नाउं घंटालोहं को कटकरणे पवत्तिज्जा ? ॥५॥ अक्षरगमनिका — अविनीतमाज्ञापयन् क्लिश्यति भाषते च मृषामेव । ज्ञात्वा घण्टालोहं कः कटकरणे प्रवर्तेत ॥ ५ ॥ टीका— अविनीतं विनयविकलं मिथ्याभिनिविष्टं वाऽऽज्ञापयन् आदिशन् यथेदं कुर्विति वक्ता क्लिश्यति खिद्यतेऽनालोच्योपदेशदानात्, तथाहि - नृपादिः श्रोता कदाचित् प्रद्वेषमपि गच्छेद् द्विष्टश्चासौ हन्यादपि । अतः पुरुषमविदित्वा धर्मकथा न कार्या । यदागमः – “अवि य हणे अणाइयमाणे”। (आचाराङ्गसूत्रम्) किञ्च - अनालोच्याऽऽज्ञापयन् वक्ता भाषते - वदति मृषामेवाऽसत्यामेव भाषां वक्त्राऽनालोच्य - भाषणादेवाविनीते वचनविपरिणत्याऽहितकरत्वादपायहेतुत्वाच्च । एतदेव दृष्टान्तद्वारेणाह - ज्ञात्वाऽवबुध्य घण्टालोहं घण्टा वाद्यविशेषस्तदर्थं लोहं कालायः कः सुज्ञः कटकरणे प्रतरनिष्पादने यदि वा कट एव कटकस्तत्करणे प्रवर्तेत प्रारभेत ? न कोऽपीत्यर्थ आयासमात्रफलत्वात्, तथाहि तस्य बरटस्वभावेन घनताङ्गनमात्राद् भङ्गापत्तिः । अत्रार्थे स्वयं भगवान् श्रीमन्महावीरस्वामी दृष्टान्तः, यथा प्रथमसमवसरणेऽभावितां पर्षदं ज्ञात्वा तथाकल्पात् स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वाऽन्यत्र विजहार । स्यादेतत् कथं तर्हि वें. ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148