________________
सप्तमी दानविंशिका
[ ४१
अक्षरगमनिका — एतस्य ग्राहकोऽपि शुश्रूषासंयुक्तो विज्ञेयः । सिराऽभावे खननादेव कूपे जलं
न भवति ॥ ३॥
टीका — एतस्य ज्ञानदानस्य न केवलमुक्तस्वरूपो दाता ग्राहकोऽपि प्रतीच्छकोऽपि शुश्रूषासंयुक्तः श्रवणेच्छासमन्वितो विज्ञेयः अवगन्तव्यः । विपर्यये यद्भवति तद्दृष्टान्तपुरस्सरमाह- सिराऽभावे अम्भःस्रोतोऽभावे पृथिव्यां खननादेव अवदारणमात्रात् कूपेऽवटे जलं प्रतीतं न नैव भवति जायते, तथैव श्रोतरि शुश्रूषाऽभावे श्रवणमात्रात् ज्ञानपरिणतिर्न जायते । तदुक्तम्
विंशतिर्विशिकाः ]
बोधाम्भः स्रोतसश्चैषा, सिरातुल्या सतां मता ।
अभावेऽस्याः श्रुतं व्यर्थमसिरावनिकूपवत् ॥ १ ॥ (यो. दृ. ५३) ३॥ अथ दानविधिमाह—
ओहेण वि उवएसो आयरिएणं विभागसो देओ ।
सामाइ धम्मजणओ महुरगिराए विणीयस्स ॥४॥
अक्षरगमनिका — आचार्येण मधुरगिरा सामायिकधर्मजनक उपदेशो विनीतायौघेनाऽपि विभागशो देयः ॥ ४ ॥
टीका- आचार्येण अनुयोगाचार्येण धर्मोपदेशकेनेतियावद् मधुरगिरा कर्णप्रियवाण्या सामायिक धर्मजनकः सर्वविरतिदेशविरत्यादिपरिणामाविर्भावक उपदेशो धर्मकथालक्षणा देशना विनीताय वक्ष्यमाणलक्षणविनयादिगुणसम्पन्नाय ओघेनाऽपि उत्सर्गेणाऽपि विभागशो बालमध्यमपण्डितभेदाद् यथाग्राहकं देयो दातव्यः । ननु 'जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थइ, जहा तुच्छस्स कत्थइ तहा पुण्णस्स कत्थइ' इत्याचाराङ्गसूत्रप्रामाण्यात् श्रोतृभेदेनोपदेशभेदो न युक्त इति चेत्, उच्यते— इदं सूत्रोक्तं वक्तुर्निरीहताऽऽविर्भावकं न तु श्रोतृविवेचननिषेधकम् । उक्तं च- यथास्थानं गुणोत्पत्तेः सुवैद्येनेव भेषजम् । बालाद्यपेक्षया देया देशना क्लेशनाशिनी ।। द्वा. द्वा. (२ - १) ||४|| श्रोतृविवेकमकृत्वोपदेशदाने दोषमाह - अविणीयमाणवंतो किलिस्सई भासई मुसं चेव । नाउं घंटालोहं को कटकरणे पवत्तिज्जा ? ॥५॥
अक्षरगमनिका — अविनीतमाज्ञापयन् क्लिश्यति भाषते च मृषामेव । ज्ञात्वा घण्टालोहं कः कटकरणे प्रवर्तेत ॥ ५ ॥
टीका— अविनीतं विनयविकलं मिथ्याभिनिविष्टं वाऽऽज्ञापयन् आदिशन् यथेदं कुर्विति वक्ता क्लिश्यति खिद्यतेऽनालोच्योपदेशदानात्, तथाहि - नृपादिः श्रोता कदाचित् प्रद्वेषमपि गच्छेद् द्विष्टश्चासौ हन्यादपि । अतः पुरुषमविदित्वा धर्मकथा न कार्या । यदागमः – “अवि य हणे अणाइयमाणे”। (आचाराङ्गसूत्रम्) किञ्च - अनालोच्याऽऽज्ञापयन् वक्ता भाषते - वदति मृषामेवाऽसत्यामेव भाषां वक्त्राऽनालोच्य - भाषणादेवाविनीते वचनविपरिणत्याऽहितकरत्वादपायहेतुत्वाच्च । एतदेव दृष्टान्तद्वारेणाह - ज्ञात्वाऽवबुध्य घण्टालोहं घण्टा वाद्यविशेषस्तदर्थं लोहं कालायः कः सुज्ञः कटकरणे प्रतरनिष्पादने यदि वा कट एव कटकस्तत्करणे प्रवर्तेत प्रारभेत ? न कोऽपीत्यर्थ आयासमात्रफलत्वात्, तथाहि तस्य बरटस्वभावेन घनताङ्गनमात्राद् भङ्गापत्तिः । अत्रार्थे स्वयं भगवान् श्रीमन्महावीरस्वामी दृष्टान्तः, यथा प्रथमसमवसरणेऽभावितां पर्षदं ज्ञात्वा तथाकल्पात् स्थले वृष्टिमिव निष्फलां देशनां क्षणं दत्त्वाऽन्यत्र विजहार । स्यादेतत् कथं तर्हि वें. ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org