________________
४२ ] सप्तमी दानविंशिका
[विंशतिर्विशिकाः धर्मकथा कार्येत्युच्यते कोऽयं पुरुषः कञ्च देवताविशेषं नत इत्याद्यालोच्य धर्मकथा कार्या। उक्तं च केयं पुरिसे कं च नए ? इत्यादि (आचाराङ्गसूत्रम्)। अतः श्रोतृभेदेन देशनाभेदः कर्तव्य इति स्थितम् ।।५।। ज्ञानस्य फलं विरतिरिति ज्ञानदानानन्तरं विरतिलक्षणमभयदानमाह
विनेयमभयदाणं परमं मणवयणकायजोगेहिं।
जीवाणमभयकरणं सव्वेसिं सबहा सम्मं ॥६॥ अक्षरगमनिका-सर्वेषां जीवानां मनोवचनकाययोगैः सर्वथा सम्यगभयकरणं परममभयदानं विज्ञेयम् ।।६।।
टीका-सर्वेषां समस्तानां सूक्ष्मबादरभेदभिन्नानां जीवानां सत्त्वानां मनोवचनकाययोगैः मनोवाक्कायव्यापारैः सर्वथा करणकारणानुमतिभेदेन सम्यक् अरक्तद्विष्टेनाऽऽत्मोपमया अभयकरणं भयानामभावः अभयं तस्य करणं, भयानि सप्त, तद्यथा-१.मनुष्यस्य मनुष्याद्भयम् इहलोकभयं २.मनुष्यस्य देवादेर्भयं परलोकभयं ३.धनादिग्रहणाद्भयम् आदानभयं ४.बाह्यनिमित्तनिरपेक्षं भयम् अकस्माद्भयम् ५.आजीविकाभयं ६.मरणभयम् ७.अपयशोभयं चेति, परमं सर्वश्रेष्ठम् अभयदानम् अभयम् उक्तस्वरूपं तस्य दानं परमकरुणालक्षणं विज्ञेयं बोद्धव्यमिति ।।६।। अनन्तरोक्तस्याभयदानस्योत्तमत्वान्नानुत्तमस्तद्दातुं वानुपालयितुं तरतीत्याह
उत्तममेयं जम्हा तम्हा णाणुत्तमो तरइ दाउं।
अणुपालिङ व, दिनं पि हंति समभावदारिदे ॥७॥ अक्षरगमनिका-यस्मादुत्तममेतत्तस्मादनुत्तम एतद्दातुमनुपालयितुं च न तरति। समभावदारिने दत्तमपि हन्ति ॥७॥
टीका-यस्मात् कारणाद् उत्तमं सर्वोत्कृष्टम् एतद् अभयदानं तस्मात् कारणाद् अनुत्तम उत्तमव्यतिरिक्तः अविरतः पुरुष एतत् प्रकृतमभयदानं दातुं विश्राणयितुं तथाऽनुपालयितुं दानादूर्ध्वं तत्परिणाम रक्षयितुं चः समुच्चये न नैव तरति पारयति। किञ्च- समभावदारिये समतादौर्गत्ये सति दत्तमपि वितीर्णमपि हन्ति नाशयति लुप्यतीति यावद् यतः सर्वत्राऽरक्तद्विष्टसमभावेनैवैतत् सम्यक् पालयितु शक्यं नान्यथा । एतदुक्तं भवति-तत्त्ववेत्ता भवभावाद्विरक्तः सर्वत्राऽरक्तद्विष्ट: समतासमृद्धो ह्युत्तमः पुरुषः अभयदानस्य दाताऽनुपालयिता च भवति। तदुक्तम्
अण्णो देहातो अहं, नाणत्तं जस्स उवलद्धं ।
सो किंचि आहिरिकं, न कुणदि देहस्स भंगे वि ।।१।। 'आहिरिकं' न ह्रीर्लज्जा यस्य सः अहीकस्तस्य भाव आह्रीक्यं संयमविलोपस्तन्न करोतीत्यर्थः ॥७॥ एतदेव भावयति
जिणवयणनाणजोगेण तकुलठिईसमासिएणं च।
विनेयमुत्तमत्तं न अनहा इत्थ अहिगारे॥८॥ अक्षरगमनिका-अत्राधिकारे जिनवचनज्ञानयोगेन तत्कुलस्थितिसमाश्रितेन चोत्तमत्वं विज्ञेयं नान्यथा ||८||
टीका-अत्र अभयदानविषयकेऽधिकारे प्रस्तावे जिनवचनज्ञानयोगेन श्रुतज्ञानोपयोगेन ‘पढमं नाणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org