________________
विंशतिर्विशिकाः ]
सप्तमी दानविंशिका
[ ४३
तओ दया' इत्यनेन गीतार्थस्याधिकारित्वमावेदितं भवति तथा तत्कुलस्थितिसमाश्रितेन तस्य जिनस्य कुलं गुरुकुलं गुरोः श्रीजिनोत्तराधिकारित्वात् तस्य स्थितिर्मर्यादा समाचारीति यावत् तस्याः समाश्रितेन समाश्रयणेन, अनेन च गीतार्थनिश्रितानामप्यधिकारित्वं निवेदितं चः समुच्चये उत्तमत्वं प्राधान्यं विज्ञेयं बोद्धव्यं नान्यथा गीतार्थत्वं गीतार्थनिश्रां च विहाय नोत्तमत्वम् । यदागमः - गीयत्थो य विहारो, बीओ गीयत्थमीसओ । समणुन्नाओ सुसाहूणं, नत्थि तइयं वियप्पणं ।।१।। ( महा नि ६-१३३) ।।८।। एतदेवाभ्युच्चयति— दाऊणेयं जो पुण आरंभाइसु पवत्तए मूढो ।
भावदरिद्दो नियमा दूरे सो दाणधम्माणं ॥६॥
अक्षरगमनिका — दत्त्वैतद् यो मूढः पुनरारम्भादिषु प्रवर्तते स भावदरिद्रो नियमात् दानधर्माणां
दूरे ॥६॥
टीका- - दत्त्वा विश्राण्यैतद् अभयदानं सर्वविरतिमङ्गीकृत्येति भावः यः अनिर्दिष्टनामा मूढो बालिशः पुनस्तदूर्ध्वम् आरम्भादिषु हिंसापरिग्रहादिषु प्रवर्तते प्रवृत्तिं वितनोति स मूढो भावदरिद्रो विरत्या तत्कारणभूतया च समतया विकलत्वात् परमार्थदुर्गतो नियमाद् अवश्यं दानधर्माणां ज्ञानाभयादिदानलक्षणधर्माणां दूरे विप्रकृष्ट इति ||६|| अथ फलनिरूपणद्वारेणाऽधिकारित्वमाविष्करोति—
इहपरलोगेसु भयं जेण न संजायए कयाइयवि । जीवाणं तक्कारी जो सो दाया उ एयस्स ॥१०॥
अक्षरगमनिका - येनेहपरलोकेषु भयं न संजायते कदाचिदपि जीवानां तत्कारी यः स दाता त्वेतस्य ॥ १० ॥
टीका — येनाऽभयदानेन इहपरलोकेषु अत्र परत्र च भावानुष्ठानस्य सानुबन्धत्वाद् अथवा प्राकृतत्वाद्विभक्तिव्यत्यय इति इहपरलोकाभ्यां मनुष्यस्य मनुष्याद्भयम् इहलोकभयमित्याद्युक्तलक्षणाभ्यां दातुर्भयं साध्वसं न नैव संजायते भवति कदाचिदपि कस्मिञ्चिदपि काले, अयं भावः - 'दत्तं लभ्यत' इत्यभयदानस्य दाता भयानामभाजनं भवति, यदागमोऽपि सामाइयमाहु तस्स जं, जो अप्पाण भयं न दंसए। (सूत्रकृताङ्ग २-२-११७) तत्कारी अभयङ्करो जीवानां सत्त्वानां यः पूर्ववत् स सर्वविरतिधर एव दाता प्रयच्छक एतस्याऽभयदानस्य तुरवधारणे भिन्नक्रमश्च ||१०|| अनन्तरं सर्वविरतिधरः अभयदानस्य दाता निरूपितः । अधुना देशविरतिधरमाह
इय देसओ वि दाया इमस्स एयारिसो तहिं विसए । इहरा दिनुद्दालणपायं एयस्स दाणं ति ॥११॥
अक्षरगमनिका — इति देशतोऽपि दाताऽस्यैतादृशस्तत्र विषये, इतरथा दत्तोद्दालनप्रायं दानमेतस्येति ॥ ११ ॥
Jain Education International
टीका — इति एवं न केवलं सर्वतो दाता देशतोऽपि देशविरतिधरोऽपि दाता प्रयच्छकः अस्याऽभयदानस्यैतादृशः श्रीजिनवचनज्ञानयोगेन तथा प्रस्तावाच्च श्रावककुलमर्यादासमाश्रयणेनोत्तमः स्थिरप्रतिज्ञश्च तत्र विषये प्रत्याख्यातत्रसकायगोचरेऽनुपालनतः स्थावरकायविषये च भावतः अनुकम्पापरः सर्वविरतिमनोरथत्वात् । इतरथा प्रत्याख्यातस्याननुपालनेऽप्रत्याख्यातविषये चानुकम्पाऽभावे दत्तोद्दालनप्रायं
For Private & Personal Use Only
www.jainelibrary.org