________________
४०] सप्तमी दानविंशिका
[विंशतिर्विंशिकाः सप्तमी दानविंशिका अनन्तरविंशिकायां सम्यक्त्वे सति जीवस्य दानादिकाः क्रियाः शुद्धा भवन्तीत्युक्तम् । अत्र विंशिकायां तु दानमेवाऽधिकृत्याह
दाणं च होइ तिविहं नाणाभयधम्मुवग्गहकरं च।
इत्थ पढमं पसत्थं विहिणा जुग्गाण धम्मम्मि ॥१॥ अक्षरगमनिका-दानं च भवति त्रिविधंज्ञानाभयधर्मोपग्रहकरम् । अत्र धर्मे योग्यानां विधिना प्रथमं प्रशस्तम् ।।१।।
टीका-दानं स्वपरोपकारार्थं स्वस्य त्यागः, उक्तं च-अनुग्रहार्थं स्वस्यातिसर्गो दानम् (तत्त्वार्थसूत्र० अ० ७ सू० ३३) चः पुनरर्थे भवति जायते त्रिविधं त्रिप्रकारम्, तद्यथा—ज्ञानाभयधर्मोपग्रहकरं ज्ञानदानं प्रथमं ततः अभयदानं द्वितीयं ततो धर्मोपग्रहकरं तृतीयं चः समुच्चये। ननु ग्रन्थान्तरेषु अभयसुपात्रानुकम्पोचितकीर्तिभेदाद् दानं पञ्चविधं पठ्यते, तथाहि-अभयं सुपत्तदाणं, अणुकंपा उचिअ कित्तिदाणं च। (श्रा०वि०)। तत्किमित्यत्र त्रिविधं निरूप्यत इति चेत्, उच्यते-त्रिविधस्यैव मुक्त्यङ्गत्वात् शेषभेदास्तु भोगादिकं ददतीति । अत्र दानप्रस्तावे यदि वाऽस्मिन् धर्मे दानादिरूपे सद्धर्मे, योग्यानां धर्मेण ज्ञानेन वा सह योगमर्हन्तीति योग्या उचितास्तेषां प्रथम क्रमापेक्षया ज्ञानदानं विधिना 'काले विणए बहुमाणे' इत्यादि तथा ‘मंडलि निसिज्ज' इत्यादिवक्ष्यमाणविधानेन प्रशस्तं श्लाघितमिति ।।१।। अथ दातुः स्वरूपमाह
सेवियगुरुकुलवासो विसुद्धवयणोऽणुमनिओ गुरुणा।
सव्वत्थ णिच्छियमई दाया नाणस्स विडेओ॥२॥ अक्षरगमनिका—ज्ञानस्य दाता सेवितगुरुकुलवासो विशुद्धवचनो गुरुणानुमतः सर्वत्र निश्चितमतिर्विज्ञेयः ॥२॥
टीका-ज्ञानस्य ज्ञानं जिनोपज्ञं श्रुतं तस्य दाता प्रयच्छकः सेवितगुरुकुलवासो गुरुकुलं पूर्वोक्तस्वरूपं तत्र वासः अन्तेवासित्वेन निवासो गुरुकुलवासः स सेवित उपासितो येन स तथा, उक्तं च
नाणस्स होइ भागी, थिरयरओ दंसणे चारित्ते य । धन्ना आवकहाए, गुरुकुलवासं न मुंचन्ति ।।१।। पुनः कीदृशः ? विशुद्धवचनः अनवद्यवचन आर्यदेशकुलजातिभाषादिसम्पन्नत्वाद् हीलितखिसितपरुषाद्यप्रशस्तभाषावर्जनात् प्रत्यक्षपरोक्षकालवचनलिङ्गादिषोडशविधवचनपरिज्ञानाच्च।
यदागमः- “नो कप्पइ निग्गंथयाण वा निग्गंथीण वा इमाई छ अवयणाई भासित्तए, तं जहाअलियवयणे हीलियवयणे खिसियवयणे फरुसवयणे गारस्थियवयणे विओसवियाहिगरणउदीरणवयणे त्ति'। तथा वचनानि तद्यथा प्रत्यक्ष-परोक्ष-कालत्रिक-वचनत्रिक-लिङ्गत्रिकोपनयापनयचतुष्काध्यात्मेति षोडश। पुनः किंलक्षणः ? गुरुणाऽनुमतः स्वगुर्वनुमतो न तु छन्दसा प्रवृत्तो यतो गुरुदत्तैव प्रतिष्ठा भवति तत एवाऽऽदेयवचनो भवतीति, पुनः किंस्वरूपः? सर्वत्र स्वपरशास्त्रेषु निश्चितमतिः पूर्वापरपर्यालोचनेन पदार्थनिश्चयाजाताऽसन्दिग्धबुद्धिर्विज्ञेयो ज्ञातव्यः। अनीदृशस्य त्वनधिकार इति ।।२।। सम्प्रति ग्राहकलक्षणमाह
सुस्सूसासंजुत्तो विन्नेओ गाहगो वि एयस्स। न सिराऽभावे खणणाउ चेव कूवे जलं होइ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org