Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 50
________________ विंशतिर्विशिकाः ] षष्ठी शुद्धधर्मविंशिका ___ [३६ पच्छाणुपुब्बिओ पुण गुणाणमेएसि होइ लाहकमो। पाहनओ उ एवं विनेओ सिं उवन्नासो॥१८॥ अक्षरगमनिका-एतेषां गुणानां लाभक्रमः पश्चानुपूर्वितः पुनर्भवति, प्राधान्यतस्त्वेवमेषामुपन्यासो विज्ञेयः ||१८|| ___टीका-एतेषां शमसंवेगादीनां गुणानां जीवधर्माणां लाभक्रमः प्रादुर्भावानुक्रमः पश्चानुपूर्वितः पश्चानुपूम्यैवोपन्यासापेक्षया पुनरवधारणे भवति जायते, तथाहि-प्रथमस्तावदास्तिक्यं, ततः अनुकम्पा, ततो निर्वेदस्ततः संवेगस्ततश्चरम उपशमः । अत्र पर आह-कस्मात्तर्हि पूर्वानुपूर्वित उपन्यासः ? उच्यते प्राधान्यतो यथाप्राधान्यमेव तुरवधारणे एवं पूर्वानुपूर्वित एषां शमसंवेगादीनाम् उपन्यासो निरूपणाक्रमो विज्ञेयः अवगन्तव्य इति ।। १८|| अथानन्तरोक्तसम्यक्त्वलक्षणशुद्धधर्मस्य भावार्थं निरूपयति एसो उ भावधम्मो धारेइ भवनवे निवडमाणं । जम्हा जीवं नियमा अनो उ भवंगभावेणं ॥१६॥ अक्षरगमनिका-एष तु भावधर्मो यस्माद् भवार्णवे निपतन्तं जीवं नियमाद् धारयति । अन्यस्तु भवाङ्गभावेन ||१६|| टीका :- एषोऽनन्तरोक्तसम्यक्त्वलक्षणशुद्धधर्म एव तुरवधारणे भावधर्मः परमार्थतो धर्मो यस्मात् कारणाद् भवार्णवे संसारसागरे निपतन्तं निमज्जन्तं जीवं भव्यजन्तुं नियमाद् अवश्यं धारयति संस्थापयति सद्गतौ मोक्षे वा। अन्य उक्तव्यतिरिक्तो लौकिकधर्मो भवाभिनन्दिसत्को वाऽप्रधानद्रव्यधर्मस्तुःपुनरर्थे भवाङ्गभावेन संसारकारणाद् न तथेति शेषः ।।१६।। फलनिरूपणद्वारेणोपसंहरन्नाह दाणाइया उ एयंमि चेव सुद्धा उ हुँति किरियाओ। एयाओ वि हु जम्हा मुक्खफलाओ पराओ य॥२०॥ इति सद्धर्मविशिका षष्ठी । अक्षरगमनिका-एतस्मिन्नेव दानादिकाःक्रियास्तु शुद्धास्तु भवन्ति । यस्माद् एता अपि खलु मोक्षफलाः पराश्च ॥२०॥ टीका-एतस्मिन् सम्यक्त्वे सत्येव एवकारोऽवधारणे न केवलं ध्यानाध्ययनादिक्रिया दानादिकाः क्रिया अपि दानशीलतपःप्रभृतिक्रियास्तुरप्यर्थः शुद्धा अनवद्या एव तुरवधारणे भवन्ति जायन्ते। यस्मात् कारणाद् एता अपि दानादिक्रिया अपि हु प्राकृतत्वादवधारणे मोक्षफला एव मुक्तिनिबन्धनास्तस्मात् सम्यकत्वे सत्येव परा श्रेष्ठा एव चोऽवधारणे भवन्तीति शेषः। अयं भावः-चित्तानुरूपफलं सर्वव्यापाराणामिति मोक्षैकचित्तस्य सम्यग्दृष्टेः सर्वाः क्रिया मोक्षप्रापिकाः । उक्तं च-भिन्नग्रन्थेस्तु यत्प्रायो, मोक्षे चित्तं भवे तनुः। तस्य तत्सर्व एवेह, योगो योगो हि भावतः ।।१।। (यो. बि. २०३) ।।२०।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148