Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 48
________________ विंशतिर्विशिकाः ] षष्ठी शुद्धधर्मविंशिका [ ३७ अक्षरगमनिका-नरविबुधेश्वरसौख्यं भावतस्तु दुःखमेवेति मन्यमानः संवेगतो मोक्षं मुक्त्वा न किमपि प्रार्थयति ।।११॥ टीका-नरविबुद्धेश्वरसौख्यं चक्रिसुरेन्द्रसुखं भावतः परमार्थतः पुनः तुः पुनरर्थे दुःखमेवासुखमेव संयोगसापेक्षत्वाद् ‘अविक्खा खु दुक्खं'त्ति (पञ्च सूत्र.) इति मन्यमानश्चिन्तयन् संवेगतो मोक्षतीव्राभिलाषाद् मोक्षं कृत्स्नकर्मक्षयलक्षणं शुद्धात्मस्वरूपलाभं वा मुक्त्वा विहाय न नैवान्यत् किमपि सांसारिकपदार्थजातं प्रार्थयति समभिलषीतीति ।।११।। साम्प्रतं तृतीयं निर्वेदमाह नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि॥१२॥ अक्षरगमनिका-नारकतिर्यग्नरामरभवेष्वकृतपरलोकमार्गो ममत्वविषवेगरहितोऽपि निर्वेदतो वसति दुःखम् ।।१२।। टीका-नारकतिर्यग्नरामरभवेषु निरयपशुनदेवजन्मसु गतिचतुष्केऽपि सम्यक्त्विसत्त्वलाभाद् वसति दुःखमिति सम्बन्धः, कीदृशः? अकृतपरलोकमार्गः अविहितपारलौकिकहितार्थानुष्ठानः, पुनः कथम्भूतः ? ममत्वविषवेगरहितोऽपि रागोरगविषावेगरहितोऽपि निर्वेदतः सहजभववैराग्यात् कारायामिव वसति निवसति दुःखं कष्टमिति ।।१२।। इदानीमनुकम्पामाह दळूण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसओऽणुकंपं दुहा वि सामथओ कुणइ ॥१३॥ अक्षरगमनिका-भीमे भवसागरे दुःखार्तं प्राणिनिवहं दृष्ट्वाऽविशेषतः अनुकम्पां द्विधाऽपि करोति सामर्थ्यतः ।।१३।। टीका-भीमे भयङ्करे भवसागरे संसारसमुद्रे दुःखार्तं शारीरमानसदुःखदग्धं प्राणिनिवहं जीवसमूह दृष्ट्वा विलोक्याऽविशेषतः स्वपरभेदमगणयन् अनुकम्पा दयां करोति विदधाति द्विधापि द्रव्यभावभेदात् सामर्थ्यतः स्वशक्तितः। अयं भावः परहितकरणेच्छया परदुःखछेदनाय स्वशक्तितः अन्नादिद्रव्यप्रदानलक्षणां द्रव्यानुकम्पां तथोपदेशादिना च धर्ममार्गे नियोजनरूपां भावानुकम्पां करोतीति ।।१३।। सम्प्रति चरममास्तिक्यमाह मनइ तमेव सचं नीसंकं जं जिणेहिं पण्णत्तं । सुहपरिणामो सचं कंखाइविसुत्तियारहिओ॥१४॥ अक्षरगमनिका-शुभपरिणामः काङ्क्षादिविश्रोतसिकारहितो मन्यते तदेव सर्वं निःशङ्कं सत्यं यज्जिनैः प्रज्ञप्तं ।।१४॥ __टीका-शुभपरिणामः सम्यक्त्वप्रसादितशोभनाध्यवसायः पुनः कीदृशः ? काङ्क्षादिविश्रोतसिकारहितः शङ्काग्रहणं तु निःशङ्कमिति सूत्रपदेनैवेति काङ्क्षाविचिकित्सादिप्रतिकूलपरिणामप्रवाहविनिर्मुक्तः सन्नसौ मन्यते स्वरुचिविषयं नयति यथा तदेव जीवाजीवादिपदार्थजातं सर्वं निखिलं न त देशतो यत एकमप्यक्षरं श्रीजिनभाषितमरोचमानो जीवो भगवत्यविश्वासाद मिथ्यात्वमेति. उक्तं च-पयमक्खरंपि जो एगं. सव्वन्नहि पवेदियं । न रोएजऽन्नहा भासे, मिच्छद्दिठ्ठी स निच्छियं ।। (महा०नि०सू. अ. २ सू. १७१) नि शङ्कारहितं सत्यम् अवितथं सद्भ्यो वा हितं यद् अनिर्दिष्टनाम जिनैर्जितरागद्वेषैः प्रज्ञप्तम् उपदिष्टमिति ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148