Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 49
________________ ३८ षष्ठी शुद्धधर्मविंशिका [विंशतिर्विशिकाः नन्वेवंविधः शुभपरिणामोऽयं कथं भवतीत्याह एवंविहो य एसो तहाखओवसमभावओ होइ। नियमेण खीणवाही नरु व तव्वेयणारहिओ॥१५॥ अक्षरगमनिका तथाक्षयोपशमभावत एवंविधश्चैष नियमेन भवति क्षीणव्याधिर्नर इव तद्वेदनारहितः ।।१५॥ टीका-तथाक्षयोपशमभावतो यथा सम्यक्त्वमोहनीयस्य क्षय उपशमः क्षयोपशमो वा जायते तथापरिणामाद् एवंविध एव शमसंवेगादिगुणोपेतश्चोऽवधारणे एष सम्यक्त्वी नियमेनाऽवश्यंतया भवति जायते। अत्रार्थे दृष्टान्तमाह क्षीणव्याधिः समूलापगतकुष्ठादिमहारोगो नरः पुरुष इव साम्ये तबेदनारहितः कुष्ठादिमहाव्याधिनिमित्तभूतकृमिकुलाद्यापादितपीडारहितः। अयमपि जीवो दर्शनमोहनीयानन्तानुबन्धिकषायमोहनीयकर्मोदयलक्षणव्याधिविनिर्मुक्तत्वेन तीव्ररागादिवेदनाऽभावाद् उपशमादिगुणोपेतो भवतीति ।।१५।। ननु सम्यक्त्वमात्रावाप्तौ कथमेवम्भूत इत्याशङ्कय परिहरति पढमाणुदयाभावो एयस्स जओ भवे कसायाणं । ता कहमेसो एवं ? भन्नइ तबिसयविक्खाए ॥१६॥ अक्षरगमनिका—यत एतस्य प्रथमानां कषायाणामुदयाभावो भवेत्तस्मात् कथमेष एवम् ? भण्यते-तद्विषयापेक्षया ॥१६॥ टीका-पर आशङ्कते- यतो यस्मात् कारणाद् एतस्य प्रथमत एवावाप्तसम्यग्दर्शनस्य केवलं प्रथमानाम् अनन्तानुबन्धिनां कषायाणां क्रोधादिकषायमोहनीयानाम् उदयाभावो प्रदेशोदयाभावो विपाकोदयाभावो वा न तु द्वितीयाद्यप्रत्याख्यानावरणीयादिकषायाणां तथोदयाभावस्तेषां तादवस्थ्यात् तस्मात् कारणात् कथं केन हेतुनैषः सम्यक्त्विसत्त्व एवम् अनन्तरोक्तोपशमादिगुणसम्पन्नः ? भण्यत उच्यते-तद्विषयापेक्षया अनन्तानुबन्धिकषायाणां क्षयोपशमभावतो य उपशमादिगुणाः प्रादुर्भवन्ति तदपेक्षया बोद्धव्योऽयमेवम्भूतो न तु शेषाऽप्रत्याख्यानावरणीयादिकषायाणामुदयाभावापेक्षयेति।।१६।। अथवा निच्छयसम्मत्तं वाऽहिकिच्च सुत्तभणियनिउणरूवं तु। एवंविहो निओगो होइ इमो हंत वच्चु ति॥१७॥ अक्षरगमनिका निश्चयसम्यक्त्वं वाऽधिकृत्य तु सूत्रभणितनिपुणरूपं यतोऽयमेवंविधो नियोगो हन्त भवति वाच्य इति ।।१७।। टीका-अथवा निश्चयसम्यक्त्वं निश्चयनयाभिमतसप्तमगुणस्थानकवर्तिजीवसम्यक्त्वं वा विकल्पेऽधिकृत्याऽऽश्रित्यैव तुरवधारणे सूत्रभणितनिपुणरूपम् आगमोक्तोपशमादिसुन्दरस्वरूपं ज्ञेयमिति शेषः, इतिहेतौ यस्माद् अयम् पूर्ववर्णित एवंविधःशमसंवेगादिशुभपरिणामरूपो नियोगो व्यापारो हन्ताऽऽमन्त्रणे भवति जायते वाच्यः सम्यक्त्वपदार्थः अन्यथा चतुर्थगुणस्थानकवर्तिकृष्णश्रेणिकादिषूक्तशमसंवेगादिलक्षणाभावात् सम्यक्त्वमेव न संगच्छेत । श्रूयन्ते ह्येते क्षायिकसम्यक्त्वस्वामिनो भविष्यत्तीर्थकरजीवाः । इदं त्वत्र ध्येयम्-ज्ञाननयाभिप्रायेण तथाविधविशिष्टज्ञानदशैव निश्चयतः सम्यक्त्वम् । क्रियानयाभिप्रायेण तूक्तमेव सप्तमगुणस्थानकगतभावचारित्रं निश्चयतः सम्यक्त्वमिति ||१७|| साम्प्रतं शमसंवेगादीनां प्राप्तिक्रम उच्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148