________________
३८ षष्ठी शुद्धधर्मविंशिका
[विंशतिर्विशिकाः नन्वेवंविधः शुभपरिणामोऽयं कथं भवतीत्याह
एवंविहो य एसो तहाखओवसमभावओ होइ।
नियमेण खीणवाही नरु व तव्वेयणारहिओ॥१५॥ अक्षरगमनिका तथाक्षयोपशमभावत एवंविधश्चैष नियमेन भवति क्षीणव्याधिर्नर इव तद्वेदनारहितः ।।१५॥
टीका-तथाक्षयोपशमभावतो यथा सम्यक्त्वमोहनीयस्य क्षय उपशमः क्षयोपशमो वा जायते तथापरिणामाद् एवंविध एव शमसंवेगादिगुणोपेतश्चोऽवधारणे एष सम्यक्त्वी नियमेनाऽवश्यंतया भवति जायते। अत्रार्थे दृष्टान्तमाह क्षीणव्याधिः समूलापगतकुष्ठादिमहारोगो नरः पुरुष इव साम्ये तबेदनारहितः कुष्ठादिमहाव्याधिनिमित्तभूतकृमिकुलाद्यापादितपीडारहितः। अयमपि जीवो दर्शनमोहनीयानन्तानुबन्धिकषायमोहनीयकर्मोदयलक्षणव्याधिविनिर्मुक्तत्वेन तीव्ररागादिवेदनाऽभावाद् उपशमादिगुणोपेतो भवतीति ।।१५।। ननु सम्यक्त्वमात्रावाप्तौ कथमेवम्भूत इत्याशङ्कय परिहरति
पढमाणुदयाभावो एयस्स जओ भवे कसायाणं ।
ता कहमेसो एवं ? भन्नइ तबिसयविक्खाए ॥१६॥ अक्षरगमनिका—यत एतस्य प्रथमानां कषायाणामुदयाभावो भवेत्तस्मात् कथमेष एवम् ? भण्यते-तद्विषयापेक्षया ॥१६॥
टीका-पर आशङ्कते- यतो यस्मात् कारणाद् एतस्य प्रथमत एवावाप्तसम्यग्दर्शनस्य केवलं प्रथमानाम् अनन्तानुबन्धिनां कषायाणां क्रोधादिकषायमोहनीयानाम् उदयाभावो प्रदेशोदयाभावो विपाकोदयाभावो वा न तु द्वितीयाद्यप्रत्याख्यानावरणीयादिकषायाणां तथोदयाभावस्तेषां तादवस्थ्यात् तस्मात् कारणात् कथं केन हेतुनैषः सम्यक्त्विसत्त्व एवम् अनन्तरोक्तोपशमादिगुणसम्पन्नः ? भण्यत उच्यते-तद्विषयापेक्षया अनन्तानुबन्धिकषायाणां क्षयोपशमभावतो य उपशमादिगुणाः प्रादुर्भवन्ति तदपेक्षया बोद्धव्योऽयमेवम्भूतो न तु शेषाऽप्रत्याख्यानावरणीयादिकषायाणामुदयाभावापेक्षयेति।।१६।। अथवा
निच्छयसम्मत्तं वाऽहिकिच्च सुत्तभणियनिउणरूवं तु।
एवंविहो निओगो होइ इमो हंत वच्चु ति॥१७॥ अक्षरगमनिका निश्चयसम्यक्त्वं वाऽधिकृत्य तु सूत्रभणितनिपुणरूपं यतोऽयमेवंविधो नियोगो हन्त भवति वाच्य इति ।।१७।।
टीका-अथवा निश्चयसम्यक्त्वं निश्चयनयाभिमतसप्तमगुणस्थानकवर्तिजीवसम्यक्त्वं वा विकल्पेऽधिकृत्याऽऽश्रित्यैव तुरवधारणे सूत्रभणितनिपुणरूपम् आगमोक्तोपशमादिसुन्दरस्वरूपं ज्ञेयमिति शेषः, इतिहेतौ यस्माद् अयम् पूर्ववर्णित एवंविधःशमसंवेगादिशुभपरिणामरूपो नियोगो व्यापारो हन्ताऽऽमन्त्रणे भवति जायते वाच्यः सम्यक्त्वपदार्थः अन्यथा चतुर्थगुणस्थानकवर्तिकृष्णश्रेणिकादिषूक्तशमसंवेगादिलक्षणाभावात् सम्यक्त्वमेव न संगच्छेत । श्रूयन्ते ह्येते क्षायिकसम्यक्त्वस्वामिनो भविष्यत्तीर्थकरजीवाः । इदं त्वत्र ध्येयम्-ज्ञाननयाभिप्रायेण तथाविधविशिष्टज्ञानदशैव निश्चयतः सम्यक्त्वम् । क्रियानयाभिप्रायेण तूक्तमेव सप्तमगुणस्थानकगतभावचारित्रं निश्चयतः सम्यक्त्वमिति ||१७|| साम्प्रतं शमसंवेगादीनां प्राप्तिक्रम उच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org