________________
विंशतिर्विशिकाः ] षष्ठी शुद्धधर्मविंशिका
[ ३७ अक्षरगमनिका-नरविबुधेश्वरसौख्यं भावतस्तु दुःखमेवेति मन्यमानः संवेगतो मोक्षं मुक्त्वा न किमपि प्रार्थयति ।।११॥
टीका-नरविबुद्धेश्वरसौख्यं चक्रिसुरेन्द्रसुखं भावतः परमार्थतः पुनः तुः पुनरर्थे दुःखमेवासुखमेव संयोगसापेक्षत्वाद् ‘अविक्खा खु दुक्खं'त्ति (पञ्च सूत्र.) इति मन्यमानश्चिन्तयन् संवेगतो मोक्षतीव्राभिलाषाद् मोक्षं कृत्स्नकर्मक्षयलक्षणं शुद्धात्मस्वरूपलाभं वा मुक्त्वा विहाय न नैवान्यत् किमपि सांसारिकपदार्थजातं प्रार्थयति समभिलषीतीति ।।११।। साम्प्रतं तृतीयं निर्वेदमाह
नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं ।
अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि॥१२॥ अक्षरगमनिका-नारकतिर्यग्नरामरभवेष्वकृतपरलोकमार्गो ममत्वविषवेगरहितोऽपि निर्वेदतो वसति दुःखम् ।।१२।।
टीका-नारकतिर्यग्नरामरभवेषु निरयपशुनदेवजन्मसु गतिचतुष्केऽपि सम्यक्त्विसत्त्वलाभाद् वसति दुःखमिति सम्बन्धः, कीदृशः? अकृतपरलोकमार्गः अविहितपारलौकिकहितार्थानुष्ठानः, पुनः कथम्भूतः ? ममत्वविषवेगरहितोऽपि रागोरगविषावेगरहितोऽपि निर्वेदतः सहजभववैराग्यात् कारायामिव वसति निवसति दुःखं कष्टमिति ।।१२।। इदानीमनुकम्पामाह
दळूण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं ।
अविसेसओऽणुकंपं दुहा वि सामथओ कुणइ ॥१३॥ अक्षरगमनिका-भीमे भवसागरे दुःखार्तं प्राणिनिवहं दृष्ट्वाऽविशेषतः अनुकम्पां द्विधाऽपि करोति सामर्थ्यतः ।।१३।।
टीका-भीमे भयङ्करे भवसागरे संसारसमुद्रे दुःखार्तं शारीरमानसदुःखदग्धं प्राणिनिवहं जीवसमूह दृष्ट्वा विलोक्याऽविशेषतः स्वपरभेदमगणयन् अनुकम्पा दयां करोति विदधाति द्विधापि द्रव्यभावभेदात् सामर्थ्यतः स्वशक्तितः। अयं भावः परहितकरणेच्छया परदुःखछेदनाय स्वशक्तितः अन्नादिद्रव्यप्रदानलक्षणां द्रव्यानुकम्पां तथोपदेशादिना च धर्ममार्गे नियोजनरूपां भावानुकम्पां करोतीति ।।१३।। सम्प्रति चरममास्तिक्यमाह
मनइ तमेव सचं नीसंकं जं जिणेहिं पण्णत्तं ।
सुहपरिणामो सचं कंखाइविसुत्तियारहिओ॥१४॥ अक्षरगमनिका-शुभपरिणामः काङ्क्षादिविश्रोतसिकारहितो मन्यते तदेव सर्वं निःशङ्कं सत्यं यज्जिनैः प्रज्ञप्तं ।।१४॥
__टीका-शुभपरिणामः सम्यक्त्वप्रसादितशोभनाध्यवसायः पुनः कीदृशः ? काङ्क्षादिविश्रोतसिकारहितः शङ्काग्रहणं तु निःशङ्कमिति सूत्रपदेनैवेति काङ्क्षाविचिकित्सादिप्रतिकूलपरिणामप्रवाहविनिर्मुक्तः सन्नसौ मन्यते स्वरुचिविषयं नयति यथा तदेव जीवाजीवादिपदार्थजातं सर्वं निखिलं न त देशतो यत एकमप्यक्षरं श्रीजिनभाषितमरोचमानो जीवो भगवत्यविश्वासाद मिथ्यात्वमेति. उक्तं च-पयमक्खरंपि जो एगं. सव्वन्नहि पवेदियं । न रोएजऽन्नहा भासे, मिच्छद्दिठ्ठी स निच्छियं ।। (महा०नि०सू. अ. २ सू. १७१) नि शङ्कारहितं सत्यम् अवितथं सद्भ्यो वा हितं यद् अनिर्दिष्टनाम जिनैर्जितरागद्वेषैः प्रज्ञप्तम् उपदिष्टमिति ॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org