________________
mammanasaram
३६ ] षष्ठी शुद्धधर्मविंशिका
[विंशतिर्विशिकाः निबन्धनम्, द्वितीयं तु क्षपकश्रेणिफलम् । तथा- अनिवर्ति निवर्तत इति निवर्ति, न निवर्ति अनिवर्ति, तस्मिन् प्रवृत्ते नियमात् सम्यक्त्वप्राप्तिः, तत्करणमनिवर्तिकरणं भण्यते। एवकारोऽवधारणे भिन्नक्रमश्च । एतच्च करणत्रिकं भव्यानामेव । इतरेषाम् अभव्यानां प्रथममेव यथाप्रवृत्तकरणमेव ग्रन्थिदेशानुल्लङ्घनात्। किंस्वरूपं करणं ? करणं तुः पुनरर्थे क्रियतेऽनेनेति करणं कर्तुः साधकतमम्, तच्चेह भण्यते कथ्यते परिणामो जीवाध्यवसायविशेषस्तीर्थंकरगणधरैरिति ।।७।। अधुनैतानि करणानि क्व क्व प्रवर्तन्त इत्याह
जा गंठि ता पढम, गंठिं समइच्छओ भवे बीयं ।
अणियट्टिकरणं पुण सम्मत्तपुरक्खडे जीवे ॥८॥ अक्षरगमनिका-यावद् ग्रन्थिस्तावत् प्रथम, ग्रन्थिं समतिक्रामतोभवेद्वितीयम्। अनिवर्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ।।८।।
टीका-यावदवधि ग्रन्थिः ग्रन्थिदेशप्राप्तिस्तावदवधि प्रथमं यथाप्रवृत्तकरणम्। ग्रन्थिं ग्रन्थिस्तीव्ररागद्वेषपरिणामलक्षणस्तं समतिक्रामतः समुल्लङ्घयतः सत एव भवेद्वितीयम् अपूर्वकरणम् अनिवर्तिकरणं पूर्ववर्णितस्वरूपं पुनर्भेदे सम्यक्त्वपुरस्कृते सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन् जीवे भव्यसत्त्व इति।।८।। अथ सम्यक्त्वे सति जीवस्य शुभपरिणाममाह----
_इत्थ य परिणामो खलु जीवस्य सुहो य होइ विडेओ।
किं मलकलंकमुकं कणगं भुवि झामलं होइ ? ॥६॥ अक्षरगमनिका—अत्र च जीवस्य परिणामः खलु शुभश्च भवति विज्ञेयः। किं मलकलङ्कमुक्तं कनकं भुवि ध्यामलं भवति ?६||
टीका-अत्र च सम्यक्त्वे सति जीवस्य भव्यसत्त्वस्य परिणामः अध्यवसायः खलुरवधारणे शुभः शोभन एव चः अवधारणे भवति जायत इति विज्ञेयो बोद्धव्यः। अत्रार्थे दृष्टान्तमाह-किं वितर्के मलकलङ्कमुक्तं मलमेव कलङ्कस्तेन मुक्तं शुद्धं कनकं सुवर्णं भुवि जगति ध्यामलं श्यामलं भवति जायते ? नैव जायत इत्यर्थः। अयं भावः—तीव्ररागादिसङ्कलेशहेतुमिथ्यात्वानन्तानुबन्धिकषायमलक्षीणे सति जीवसुवर्णस्य नैवाशुभपरिणामलक्षणं ध्यामलं भवतीति ।।६।। अधुना सम्यक्त्वलक्षणानि निरूपयन् प्रथमं प्रशममाह
पयईय व कम्माणं वियाणिउं वा विवागमसुहं ति।
अवरद्धे वि न कुप्पइ उवसमओ सबकालं पि॥१०॥ अक्षरगमनिका-प्रकृत्यैव कर्मणां वा विपाकमशुभमिति विज्ञायाऽपराद्धेऽपि न कुप्यत्युपशमात् सर्वकालमपि ।।१०।।
टीका-प्रकृत्यैव सम्यक्त्वपरिणामसमन्वितजीवस्वभावादेवाथवा कर्मणां कषायमोहनीयानां वा विकल्पे विपाकं फललाभरूपम् अशुभम् अशोभनं चिरकालवेदनीयनारकादिदुःखरूपत्वाद् इतिः र्निदर्शने विज्ञायाऽवबुध्याऽपराद्धेऽपि अपकारिण्यपि न नैव कुप्यति क्रुध्यति उपशमात् तथाविधकर्मोपशान्त्या सर्वकालं यावत् सम्यक्त्वस्थितिरिति ।।१०।। अथ द्वितीयं संवेगमाह
नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मनतो। संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेइ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org