________________
विंशतिर्विशिकाः ] षष्ठी शुद्धधर्मविंशिका
[ ३५ अक्षरगमनिका-सप्ततिस्तु चतुर्थस्य विंशतिस्तथा षष्ठसप्तमयोश्च त्रयस्त्रिंशत् सागराणि पञ्चमकस्यापि विज्ञेया ॥४॥
टीका-सप्ततिः पुनः तुः पुनरर्थे चतुर्थस्य मोहनीयस्य, विंशतिस्तथा समुच्चये षष्ठसप्तमयोश्च नामगोत्रयोः, त्रयस्त्रिंशत् सागराणि सागरोपमाणि पच्चमकस्य चायुष्कस्य देवनारकोत्कृष्टायुरपेक्षया विज्ञेया बोद्धव्येति ।। ४| ततः किमित्याह
अट्ठण्हं पयडीणं उक्कोसठिईए वट्टमाणो उ।
जीवो न लहइ एवं जेण किलिट्ठासओ भावो॥५॥ अक्षरगमनिका-अष्टानां प्रकृतीनामुत्कृष्टस्थितौ वर्तमानस्तु जीवो न लभत एतद् येन क्लिष्टाशयो भावः ।।५।।
टीका-अष्टानां पूर्ववर्णितानां प्रकृतीनां ज्ञानावरणीयादिकर्मप्रकृतीनाम् उत्कृष्टस्थितौ प्रकृष्टस्थितौ वर्तमानो विद्यमानस्तुर्विशेषे जीवो भव्यसत्त्वोऽपि न नैव लभते प्राप्नोति एतत् तिरस्कृतकामकुम्भसुरधेनुचिन्तामण्यादि सम्यक्त्वरलं येन यस्मात् कारणात् प्रक्रान्तजीवस्य क्लिष्टाशयस्तीव्ररागाधुपहतः अध्यवसायो येन स तथाऽसौ भावः प्रस्तावादौदयिकः। 'भवे' इति पाठः संभाव्यते तर्हि-येनाऽसौ क्लिष्टाशयो भवेदिति। उक्तं च-न हि रेणुभृतं चक्षुः सम्यक् पश्यति रूपमिति ॥५।। तर्हि कदा प्राप्नोतीत्याह
सत्तण्हं पयडीणं अभिंतरओ उ कोडाकोडीए।
पाउणइ नवरमेयं अपुवकरणेण कोई तु॥६॥ अक्षरगमनिका-सप्तानां प्रकृतीनां कोटाकोट्या अभ्यन्तरतस्तु कोऽपि तु प्राप्नोत्येतदपूर्वकरणेन केवलम् ।।६।।
टीका-सप्तानाम् आयुर्वर्जज्ञानावरणीयादीनां प्रकृतीनां कर्मप्रकृतीनां स्थितयो यदा चरमयथाप्रवृत्तकरणेन सागरोपमाणां कोटाकोट्या अभ्यन्तरतः अन्तराल एव भवन्ति तुरवधारणे तदा तत्र वर्तमानः कोऽपि कश्चिदेव भव्यसत्त्वस्तुरवधारणे प्राप्नोति लभत एतत् सम्यग्दर्शनम् अपूर्वकरणेन वक्ष्यमाणलक्षणेनैव नवरं प्राकृतत्वादवधारण इति ॥६॥ साम्प्रतं करणानां स्वामिभेदेन नामनिर्देश स्वरूपमाह
करणं अहापवत्तं अपुवमणियट्टिमेव भव्वाणं।
इयरेसिं पढमं चिय भण्णइ करणं ति परिणामो॥७॥ अक्षरगमनिका-करणं यथाप्रवृत्तमपूर्वमनिवर्ति भव्यानामेव। इतरेषां प्रथममेव । करणमिति भण्यते परिणामः ।।७।।
टीका-करणं वक्ष्यमाणस्वरूपम्, तच्च त्रिधा-यथाप्रवृत्तकरणमपूर्वकरणमनिवर्तिकरणं च । यथाप्रवृत्तं यथा नदीपाषाणगोलन्यायेन विशिष्टनिमित्तं विनापि प्रवृत्तं येन करणेन प्रत्येकजीवस्तथास्वभावाद् अनन्तश उत्कृष्टकर्मस्थितिं क्षपयन् यावदन्तःकोटाकोटिस्थितिकं ग्रन्थिदेशं प्राप्नोति तत्करणं यथाप्रवृत्तकरणमुच्यते। तथा- अपूर्वम् अनादौ संसारे न संजातं प्रागिति अपूर्वकरणमभिधीयते तच्च द्विधा-प्रथमं ग्रन्थिभेद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org