SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ ] षष्ठी शुद्धधर्मविंशिका [विंशतिर्विशिकाः षष्ठी शुद्धधर्मविशिका अनन्तरविंशिकायां बीजादिक्रमेण शुद्धधर्मो जायते जीवानामित्युक्तम् । अत्र विंशिकायामेष एव शुद्धधर्मः सहेतुस्वरूपफलं निरूप्यते एसो पुण सम्मत्तं सुहायपरिणामरूवमेवं च । अप्पुवकरणसझं चरमुक्कोसटिईखवणे ॥१॥ अक्षरगमनिका-एवं चरमोत्कृष्टस्थितिक्षपणेऽपूर्वकरणसाध्यं चैष पुनः शुभात्मपरिणामरूपं सम्यक्त्वमस्ति ।।१।। टीका-एवं चरमावर्ते भवस्थितिपरिपाकाद् बीजादिक्रमेण हि वक्ष्यमाणलक्षणेन चरमयथाप्रवृत्तकरणेन चरमोत्कृष्टस्थितिक्षपणे चरमवारमायुर्वर्जज्ञानावरणीयादिकर्मसप्तकस्योत्कृष्टस्थितिक्षये सति, सम्यक्त्वप्राप्तेरूर्ध्वमुत्कृष्टस्थितिबन्धाभावाद् अपूर्वकरणसाध्यं वक्ष्यमाणलक्षणापूर्वकरणफलं चः समुच्चये एष शुद्धधर्म एव पुनरवधारणे शुभात्मपरिणामरूपम् उपशमाद्यभिव्यङ्ग्यजीवशुभाध्यवसायात्मकं तत्त्वार्थश्रद्धानं सम्यक्त्वं भवकोटिदुर्लभं सम्यग्दर्शनमस्तीति ।।१।। अथ ज्ञानावरणीयादीनां कर्मणामुत्कृष्टस्थितिप्रतिपादयन्नाह कम्माणि अट्ठ नाणावरणिजाईणि हुतिं जीवस्स। तेसिं च ठिई, भणिया उक्कोसेणेह समयम्मि॥२॥ अक्षरगमनिका-कर्माण्यष्ट ज्ञानावरणीयादीनि भवन्ति जीवस्य, तेषां च स्थितिर्भणितोत्कर्षेणेह समये ||२|| टीका–क्रियन्ते जीवेन मिथ्यात्वाविरतिकषायादिहेतुभिरिति कर्माणि तानि च सङ्ख्यया अष्ट न न्यूनाधिकानि ज्ञानावरणीयादीनि ज्ञानादिगुणावरणाद् यथार्थनामानि ज्ञानावरणीयदर्शनावरणीयवेदनीयमोहनीयायुष्कनामगोत्रान्तरायाणि भवन्ति जायन्ते प्रवाहतः अनादीनि जीवस्य भवस्थसत्त्वस्य तेषां च कर्मणां स्थितिः स्वस्वबन्धकालादूर्ध्वं जीवेन सहावस्थानलक्षणा भणिता निरूपिता तीर्थकरगणधरैः उत्कर्षेणाऽतिशयेन द्राघिष्ठा इह मौनीन्द्रे समये आगमे ||२|| तथाहि आइल्लाणं तिण्हं चरिमस्स य तीसकोडकोडीओ। होइ ठिई उक्कोसा अयराणं सतिकडा चेव ॥३॥ अक्षरगमनिका-आदिमानां त्रयाणां चरमस्य च त्रिंशत्कोटाकोट्यो भवन्ति स्थितिरुत्कृष्टा अतराणां सकृत्कृता एव ॥३॥ ___टीका आदिमानां ज्ञानावरणीयदर्शनावरणीयवेदनीयानां त्रयाणां चरमस्य चान्तरायस्य त्रिंशत्कोटाकोट्यो भवन्ति बध्यन्ते स्थितय उक्तस्वरूपा उत्कृष्टा द्राघिष्ठा अतराणां सागरोपमाणां समयप्रसिद्धकालमानविशेषाणां सकृत्कृता एकवारेणैवातिसंक्लिष्टाध्यवसायनिमित्तबद्धा एव ।।३।। तथा सयरिं तु चउत्थस्स वीसं तह छट्ठसत्तमाणं च। तित्तीस सागराइं पंचमगस्सावि विनेया ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002770
Book TitleVinshativinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorKulchandrasuri
PublisherJain Sangh Sihor
Publication Year2000
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy