________________
विंशतिर्विंशिकाः ]
पञ्चमी बीजादिविंशिका
[ ३३
मित्याशङ्कायामाह-व्याधेर्ज्वरादेः उदये सद्यः प्रादुर्भावे चिकित्सासमयसमम् अचरमावर्तकालस्य प्राधान्यं भवतीति सम्बन्धः । उदयचिकित्सासमयसमं यथाऽभिनवज्वरादौ विधीयमाना चिकित्सा न केवलं निरर्थिका प्रत्युत समधिकबाधाविधायिका तथैवाऽचरमावर्तलक्षणभवबालकालस्तथास्वाभाव्याद् धर्मचिकित्साया अकालो भवति जायते जीवस्य तीव्रपापाभिभूतत्वादिति ज्ञातव्यं बोद्धव्यम् ||१७| भवबालो
यथाऽचिकित्स्यस्तथा
दृष्टान्तहेतुपुरस्सरं प्रदर्शयति
बालस्य धूलिगेहातिरमणकिरिया जहा परा भाइ ।
भवबालस्स वि तस्सत्तिजोगओ तह असक्किरिया ॥ १८ ॥
अक्षरगमनिका - बालस्य धूलिगृहादिरमणक्रिया यथा परा भाति तथा भवबालस्यापि तच्छक्तियोगतः असत्क्रिया ||१८||
टीका - बालस्य अव्यक्तवयसो धूलिगृहादिरमणक्रिया पांशुवेश्मापणादिक्रीडालक्षणचेष्टा यथा दृष्टान्ते परा प्रेष्ठा भाति लगति तथा दार्शन्तिके भवबालस्यापि उक्तस्वरूपस्यापि तच्छक्तियोगतः अनादिभवभ्रमणशक्तियोगाद् असत्क्रिया विषयभोगादिक्रिया प्राणप्रिया भातीति ||१८|| धर्मयुवा यथा चिकित्स्यो भवति
तथाह
जुव्वणजुत्तस्स उ भोगरागओ सा न किंचि जह चेव । एमेव धम्मरागाऽसक्किरिया धम्मजूणो वि ॥१६॥
अक्षरगमनिका- — यथा यौवनयुक्तस्य तु भोगरागादेव सा न किञ्चित् । एवमेव धर्मरागाद् असत्क्रिया धर्मयूनोऽपि ॥ १६ ॥
टीका — यथा येन प्रकारेण यौवनयुक्तस्य उक्तलक्षणयौवनेनान्वितस्य तुर्विशेषे भोगरागादेव स्त्रीस्रक्चन्दनादिविषयाभिष्वङ्गादेव सा बालधूलिगृहादिरमणक्रिया न नैव किञ्चिद् मनागपि भातीति शेषः । एवमेव तथैव धर्मरागात् चारित्रधर्मस्पृहातः असत्क्रिया उक्तलक्षणा धर्मयूनोऽपि धर्मयौवनयुक्तस्यापि न किञ्चिद् भातीति ॥ १६ ॥ उपसंहरन्नाह
इय बीजाइकमेणं जायइ जीवाण सुद्धधम्मु त्ति ।
जह चंदणस्स गंधो तह एसो तत्तओ चेव ॥२०॥
इति बीजादिविंशिका पञ्चमी ॥ ५ ॥
अक्षरगमनिका — इति बीजादिक्रमेण जीवानां जायते शुद्धधर्म इति, यथा चन्दनस्य गन्धस्तथैव तत्त्वत एव ॥ २०॥
Jain Education International
टीका — इति एवमुक्तप्रकारेण बीजादिक्रमेण बीजाङ्कुरादिपरम्परातो जीवानां भव्यसत्त्वानां जायते प्रादुर्भवति शुद्धधर्मः अनवद्यो धर्म इतिर्हेतौ यस्मादनवद्यो धर्मस्तस्माद्बीजादिक्रमेणैव जायते नान्यथेति भावः । अत्रार्थे दृष्टान्तमाह-यथा येन प्रकारेण चन्दनस्य मलयजस्य गन्धः सुरभिः स्वभावस्तथा तेन प्रकारेण एषः अनवद्यो धर्मस्तत्त्वतः परमार्थतो जीवस्य स्वभाव एव । किञ्च चन्दनस्य गन्धो जीवानां यथाऽऽनन्ददायी तथैव शुद्धधर्मोपीति ॥ २०॥
विं. ५
*
For Private & Personal Use Only
www.jainelibrary.org