Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 47
________________ mammanasaram ३६ ] षष्ठी शुद्धधर्मविंशिका [विंशतिर्विशिकाः निबन्धनम्, द्वितीयं तु क्षपकश्रेणिफलम् । तथा- अनिवर्ति निवर्तत इति निवर्ति, न निवर्ति अनिवर्ति, तस्मिन् प्रवृत्ते नियमात् सम्यक्त्वप्राप्तिः, तत्करणमनिवर्तिकरणं भण्यते। एवकारोऽवधारणे भिन्नक्रमश्च । एतच्च करणत्रिकं भव्यानामेव । इतरेषाम् अभव्यानां प्रथममेव यथाप्रवृत्तकरणमेव ग्रन्थिदेशानुल्लङ्घनात्। किंस्वरूपं करणं ? करणं तुः पुनरर्थे क्रियतेऽनेनेति करणं कर्तुः साधकतमम्, तच्चेह भण्यते कथ्यते परिणामो जीवाध्यवसायविशेषस्तीर्थंकरगणधरैरिति ।।७।। अधुनैतानि करणानि क्व क्व प्रवर्तन्त इत्याह जा गंठि ता पढम, गंठिं समइच्छओ भवे बीयं । अणियट्टिकरणं पुण सम्मत्तपुरक्खडे जीवे ॥८॥ अक्षरगमनिका-यावद् ग्रन्थिस्तावत् प्रथम, ग्रन्थिं समतिक्रामतोभवेद्वितीयम्। अनिवर्तिकरणं पुनः सम्यक्त्वपुरस्कृते जीवे ।।८।। टीका-यावदवधि ग्रन्थिः ग्रन्थिदेशप्राप्तिस्तावदवधि प्रथमं यथाप्रवृत्तकरणम्। ग्रन्थिं ग्रन्थिस्तीव्ररागद्वेषपरिणामलक्षणस्तं समतिक्रामतः समुल्लङ्घयतः सत एव भवेद्वितीयम् अपूर्वकरणम् अनिवर्तिकरणं पूर्ववर्णितस्वरूपं पुनर्भेदे सम्यक्त्वपुरस्कृते सम्यक्त्वं पुरस्कृतं येन स तथा तस्मिन् जीवे भव्यसत्त्व इति।।८।। अथ सम्यक्त्वे सति जीवस्य शुभपरिणाममाह---- _इत्थ य परिणामो खलु जीवस्य सुहो य होइ विडेओ। किं मलकलंकमुकं कणगं भुवि झामलं होइ ? ॥६॥ अक्षरगमनिका—अत्र च जीवस्य परिणामः खलु शुभश्च भवति विज्ञेयः। किं मलकलङ्कमुक्तं कनकं भुवि ध्यामलं भवति ?६|| टीका-अत्र च सम्यक्त्वे सति जीवस्य भव्यसत्त्वस्य परिणामः अध्यवसायः खलुरवधारणे शुभः शोभन एव चः अवधारणे भवति जायत इति विज्ञेयो बोद्धव्यः। अत्रार्थे दृष्टान्तमाह-किं वितर्के मलकलङ्कमुक्तं मलमेव कलङ्कस्तेन मुक्तं शुद्धं कनकं सुवर्णं भुवि जगति ध्यामलं श्यामलं भवति जायते ? नैव जायत इत्यर्थः। अयं भावः—तीव्ररागादिसङ्कलेशहेतुमिथ्यात्वानन्तानुबन्धिकषायमलक्षीणे सति जीवसुवर्णस्य नैवाशुभपरिणामलक्षणं ध्यामलं भवतीति ।।६।। अधुना सम्यक्त्वलक्षणानि निरूपयन् प्रथमं प्रशममाह पयईय व कम्माणं वियाणिउं वा विवागमसुहं ति। अवरद्धे वि न कुप्पइ उवसमओ सबकालं पि॥१०॥ अक्षरगमनिका-प्रकृत्यैव कर्मणां वा विपाकमशुभमिति विज्ञायाऽपराद्धेऽपि न कुप्यत्युपशमात् सर्वकालमपि ।।१०।। टीका-प्रकृत्यैव सम्यक्त्वपरिणामसमन्वितजीवस्वभावादेवाथवा कर्मणां कषायमोहनीयानां वा विकल्पे विपाकं फललाभरूपम् अशुभम् अशोभनं चिरकालवेदनीयनारकादिदुःखरूपत्वाद् इतिः र्निदर्शने विज्ञायाऽवबुध्याऽपराद्धेऽपि अपकारिण्यपि न नैव कुप्यति क्रुध्यति उपशमात् तथाविधकर्मोपशान्त्या सर्वकालं यावत् सम्यक्त्वस्थितिरिति ।।१०।। अथ द्वितीयं संवेगमाह नरविबुहेसरसुक्खं दुक्खं चिय भावओ उ मनतो। संवेगओ न मुक्खं मुत्तूणं किंपि पत्थेइ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148