Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
४४ ] सप्तमी दानविंशिका
[ विंशतिर्विंशिकाः दत्तस्याऽतिसृष्टस्य यत् पुनर्बलादादानं लोपनमिति यावत्तेन तुल्यं दानम् उक्तस्वरूपम् एतस्य पुनरारम्भादिषु प्रवृत्तस्य। इतिहेतौ यस्मादभयदानं दत्त्वा पुनस्तत्र प्रवर्तनं दत्तोद्दालनप्रायं दानं तस्मात् दृढप्रतिज्ञः सन्नभ्युपगतां सर्वविरतिं देशविरतिं च यावज्जीवमनुपालयेदिति ।।११।। अथोपसंहरन् ज्ञानदययोदनिं दाता च यथा सम्यग् भवति तथाऽऽह
नाणदयाणं खंतीविरईकिरियाइ तं तओ देइ।
अन्नो दरिद्दपडिसेहवयणतुल्लो भवे दाया॥१२॥ अक्षरगमनिका ज्ञानदययोस्तत्तकः शान्तिविरतिक्रियया ददाति, अन्यो दाता दरिद्रप्रतिषेधवचनतुल्यो भवेत् ।।१२।।
टीका-ज्ञानदययोर्बोधाभययोस्तद् दानं तको स दाता शान्तिविरतिक्रियया क्षान्तिर्वक्ष्यमाणा वचनलक्षणा धर्मस्वरूपा वा तत्प्रधाना विरतिश्चारित्रधर्मस्तक्रियया चरणकरणरूपया समितिगुप्तिपालनलक्षणया वा करणभूतया ददाति प्रयच्छति। यदि वा शान्तिविरतिक्रिययाऽन्वितो दाता ज्ञानाभययोर्दानं ददाति । अन्य शान्तिविरतिक्रियया हीनो दाता प्रयच्छको दरिद्रप्रतिषेधवचनतुल्यः अनादृतो भवेद् जायेत । तथाहियथा किञ्चित्प्रयोजनमाश्रित्य सभायां निःस्वस्य प्रतिषेधकवचनमनादृतं भवति तथैवान्यो दाताऽनादृतो भवेत् । अथवा याचकं प्रति दरिद्रस्य प्रतिषेधवचनं नास्तिरूपं भवतीति नास्तितुल्यो दाता भवेत् । अयं भावःज्ञानाभयदानस्य दाता शान्तिविरतिक्रियाहीनो नैव भवतीति ।।१२।। साम्प्रतमभयदानस्य प्रवरत्वाद् दाताप्येतस्यैश्वर्यसम्पन्नो भवतीत्युच्यते
एवमिहेयं पवरं सव्वेसिं चेव होइ दाणाणं।
इत्तो उ निओगेणं एयस्स वि ईसरो दाया॥१३॥ अक्षरगमनिका—एवमिहैतदेव सर्वेषां दानानां प्रवरं भवतीतस्त्वेतस्यापि दाता नियोगेनेश्वरः ।।३।।
टीका-एवम् अनन्तरोक्तनीत्या क्षान्तिविरतिक्रियानिबन्धनाद् इह दानप्रस्तावे एतदेवाऽभयदानमेव सर्वेषां निखिलानां दानानां ज्ञानाभयादिलक्षणानां प्रवरं श्रेष्ठं भवति समस्ति । इतः अत एव तुरवधारणे न केवलं ज्ञानसुपात्रादिदानानाम् एतस्यापि अभयदानस्यापि दाता प्रयच्छको नियोगेनाऽवश्यंतया ईश्वरः सकलसत्त्वहिताशयेन परद्रोहविरतत्वाद् धर्मराज्यवत्त्वाच्च भावत ऐश्वर्यवान् भवतीति शेषः ।।१३।। अनन्तरं ज्ञानाभययोर्दाता ज्ञानसम्पन्नत्वाद् विरतिसम्पन्नत्वाच्च भावत ईश्वर उक्तः । अधुना भावेश्वरस्यौदार्यसम्पन्नस्यैव धर्मोपग्रहकरं सुपात्रदानं निरूप्यते
इय धम्मुवग्गहकरं दाणं असणाइगोयरं तं च।
पत्थमिव अनकाले य रोगिणो उत्तमं नेयं ॥१४॥ अक्षरगमनिका-इति धर्मोपग्रहकरं दानमशनादिगोचरं तच्चान्नकाले च रोगिणः पथ्यमिवोत्तम ज्ञेयम् ।।१४॥
टीका-इति एवमुपग्रहप्रवृत्तत्वाद् यद् धर्मोपग्रहकर ज्ञानाद्युपष्टम्भकं दानं सुपात्रदानम् अशनादिगोचरम् अन्नपानशय्यावस्त्रपात्रादिविषयं तत् दानं चः पुनरर्थ उत्तम श्रेष्ठं ज्ञेयं बोद्धव्यम्, किमिव ? अनकाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148