Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
[२६
विंशतिर्विशिकाः ]
पञ्चमी बीजादिविंशिका अक्षरगमनिका-ततः सुदेशनादिभिर्भवति या भावधर्मसम्पत्तिः तत् फलमिह विज्ञेयं परमफलसाधकं नियमात् ।।५।।
टीका-ततः सद्गुदिः सकाशात् सुदेशनादिभिस्तत्त्वोपदेशश्रवणमननादिभिर्भवति जायते याऽनिर्दिष्टनामा भावधर्मसम्पत्तिः सम्यग्दर्शनादिलक्षणतात्त्विकधर्मसम्प्राप्तिस्तत् वक्ष्यमाणं फलं सद्गुरुयोगादिहेतुतः प्राप्यम् इह धर्मकल्पवृक्षबीजादिप्रस्तावे विज्ञेयम् अवगन्तव्यं परमफलसाधकं मोक्षलक्षणश्रेष्ठफलसाधकं नियमाद् अवन्ध्यहेतुभावात् अवश्यंतयेति ।।५।। आस्तामचरमावर्तेषु धर्मकल्पद्रुमस्य पत्रादिप्राप्तिः सत्त्वानां बीजप्राप्तिरपि चरमावर्त एव जायत इति हेतुपुरःसरं दर्शयति
बीजस्य वि संपत्ती जायइ चरिमंमि चेव परियट्टे ।
अचंतसुंदरा जं एसा वि तओ न सेसेसु॥६॥ अक्षरगमनिका—बीजस्यापि सम्पत्तिर्जायते चरम एव परिवर्ते। यदेषाप्यत्यन्तसुन्दरा ततो न शेषेसु ॥६॥
___ आस्तां पत्रादिफलपर्यन्तस्य बीजस्यापि उक्तस्वरूपस्यापि सम्पत्तिः सम्प्राप्तिर्जायते भवति चरम एव परिवर्ते पश्चिमपुद्गलपरावर्त नान्यत्र एव। कस्मादेवमित्याह-यद् यस्मात् कारणाद् एषापि बीजप्राप्तिरपि अत्यन्तसुन्दरा अतीवशोभनाऽनादिकालीनतीव्रमोहहेतुकगुणगुणिद्वेषापगमाद् ईषद्रागाविर्भावाद्वा ततः तस्मान्न नैव शेषेषु द्विचरमादिपुद्गलपरावर्तेष्विति ।६।। अथ चरमावर्ते प्रविष्टस्यापि जीवस्यानादिप्रमादादिहेतुकः अनन्तसंसारो न दुर्घट इत्याह
न य एयम्मि अणंतो जुजइ नेयस्य नाम कालु ति।
ओसप्पिणी अणंता हुंति जओ एगपरियट्टे ॥७॥ अक्षरगमनिका-न चैतस्मिन् नैतस्य युज्यतेऽनन्तो नाम काल इति, यत एकपरिवर्तेऽनन्ता अवसर्पिण्यो भवन्ति ||७||
टीका-न नैव चः अभ्युच्चये एतस्मिन् चरमपुद्गलपरावर्ते प्रविष्टस्य एतस्य भव्यसत्त्वस्य न नैव युज्यते घटते, अपि तु युज्यत एव अनन्तः अनन्तकसंख्येयो नाम संभावनायां कालश्चतुगर्तिसंसारपरिभ्रमणलक्षण इतिः पूरणे। अत्र हेतुमाह—यतो यस्मात् कारणाद् एकपरिवर्ते एकैकस्मिन् पुद्गलपरावर्तेऽनन्ता अनन्तसंख्येयका अवसर्पिण्यः प्रवचनप्रतीताः प्रत्येकं दशकोटाकोटिसागरोपमकालमाना उपलक्षणाद् अनन्ता उत्सर्पिण्यश्च भवन्ति जायन्त इति ।।७।। ननु किमेतानि बीजादीनि निरन्तराणि जायन्त उत सान्तराणीत्याशङ्कायामाह
बीजाइया य एए तहा तहा संतरेयरा नेया।
तहभव्वत्तखित्ता एगंतसहावऽबाहाए॥८॥ अक्षरगमनिका बीजादिकाश्चैते तथा तथा सान्तरेतरा ज्ञेयास्तथाभव्यत्वाक्षिप्ता एकान्तस्वभावाऽबाधया ||८||
एते बीजादिका अनन्तरोक्ता बीजाङ्कुरादयश्चः समुच्चये भिन्नक्रमश्च तथा तथा तेन तेन प्रकारेण सान्तराः कालकृतव्यवधाना भगवन्महावीरजीवनयसारस्येव इतरा निरन्तराश्च कालाव्यवहिता मरुदेव्या इव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148