Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
३० ] पञ्चमी बीजादिविंशिका
[विंशतिर्विशिकाः ज्ञेयाः समवसेया यत्तदोर्नित्यसम्बन्धाद् यथा यथा तथाभव्यत्वाक्षिप्ता उक्तस्वरूपेण तथाभव्यत्वेन सन्निहितकृता एकान्तस्वभावाऽबाधया एकान्तस्वभाववादाविरोधेन । एकान्तस्वभाववादलक्षणमिदम्
कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च।।
स्वभावतः सर्वमिदं प्रवृत्तं; न कामचारोऽस्ति कुतः प्रयलः ? ।।१।। एवम्भूतैकान्तस्वभाववादात् सकाशादविरोधेन, तथाहि-भव्यत्वस्यैकान्तकस्वभावत्वाभ्युपगमे देशकालादिभेदेन बीजादिप्राप्तिरूपस्य तत्फलस्य च तीर्थकरगणधरादिलक्षणस्य वैचित्र्यं न स्यात् परं देशकालादिनैकरूपता स्यात् तीर्थकरगणधरादिलक्षणफलभेदोऽपि न स्यात् । उपलभ्यते च वैचित्र्यं चित्रसंसारं संसृत्य श्रीऋषभमहावीरगौतमादीनां सिद्धिगमनस्य। तस्मादेकान्तस्वभावाऽबाधया तथास्वभावलक्षणेन तथाभव्यत्वेनाक्षिप्ता एते बीजादयः सान्तरा निरन्तराश्च ज्ञेया इति ।।८॥ यथा तथास्वभावलक्षणेन तथाभव्यत्वेनाक्षिप्ता बीजादयः कालादिवैचित्र्यभाजो भवन्ति तथा कालादिसव्यपेक्षं तथाभव्यत्वमपि स्यादित्याह
तहभव्वत्तं जं कालनियइपुवकयपुरिसकिरियाओ।
अखिवइ तहसहावं ता तदधीणं तयं पि भवे ॥६॥ अक्षरगमनिका—यत् तथास्वभावं तथाभव्यत्वं कालनियतिपूर्वकृतपुरुषक्रिया आक्षिपति तस्मात्तदधीनं तदपि भवेत् ||६||
टीका-यद् यस्मात् कारणात् तथास्वभावं यथा परस्परभिन्नपर्यायप्राप्तिहेतुः स्यात्तथा स्वभावो यस्य तत्तथैतत् तथाभव्यत्वं पूर्वोक्तस्वरूपं कालनियतिपूर्वकृतपुरुषक्रियाः प्रतीतास्ता आक्षिपति सन्निहिततामापादयति तस्मात् कारणात् तदधीनं कालनियतिपूर्वकृतादिवशं तकमपि तथाभव्यत्वमपि भवेत् परस्परसापेक्ष्यात् स्यादेवेति ||६|| परस्परसापेक्षभावाभ्युपगमे नियतिदैवपुरुषकारा अपि न विरुध्यन्त इत्याह
एवं जेणेव जहा होयव् तं तहेव होइ ति।।
न य दिव्वपुरिसगारा वि हंदि एवं विरुझंति ॥१०॥ अक्षरगमनिका—एवं येनैव यथा भवितव्यं तत्तथैव भवतीति न च दैवपुरुषकारावपि हन्तैवं विरुध्येते ||१०||
____टीका-एवं परस्परसापेक्षभावाभ्युपगमे येनैव यथा भवितव्यम् उपलक्षणाद् यस्य यदा यत्रादिग्रहस्तत्तथैव तस्य तदा तत्र ततो निमित्ताद् भवति जायते इतिलक्षणा नियतिर्न विरुध्यते। न केवलं नियतिर्दैवपुरुषकारावपि हन्त हर्षे एवं परस्परसव्यपेक्षभावेऽभ्युपगते न नैव चोऽवधारणे विरुध्येते-बाध्येत इति ।।१०।। अथ दैवपुरुषकारा आश्रित्याह
जो दिव्वेणक्खित्तो तहा तहा हंत पुरिसगारो ति।
तत्तो फलमुभयजमवि भण्णइ खलु परिसगाराओ॥११॥ अक्षरगमनिका—यो दैवेनाक्षिप्तस्तथा तथा हन्त पुरुषकार इति ततः फलमुभयजमपि भण्यते खलु पुरुषकारात् ।।११॥
योऽनिर्दिष्टनामा यत्तदोर्नित्यसम्बन्धाद् यथा यथा दैवेन पूर्वकृतकर्मणा आक्षिप्त आपादितसन्निधिस्तथा तथा तेन तेन प्रकारेण हन्त आमन्त्रणे स पुरुषकारः पुरुषव्यापारो भवतीति शेष इतिहेतौ यस्मात् कारणात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148