Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 44
________________ विंशतिर्विंशिकाः ] पञ्चमी बीजादिविंशिका [ ३३ मित्याशङ्कायामाह-व्याधेर्ज्वरादेः उदये सद्यः प्रादुर्भावे चिकित्सासमयसमम् अचरमावर्तकालस्य प्राधान्यं भवतीति सम्बन्धः । उदयचिकित्सासमयसमं यथाऽभिनवज्वरादौ विधीयमाना चिकित्सा न केवलं निरर्थिका प्रत्युत समधिकबाधाविधायिका तथैवाऽचरमावर्तलक्षणभवबालकालस्तथास्वाभाव्याद् धर्मचिकित्साया अकालो भवति जायते जीवस्य तीव्रपापाभिभूतत्वादिति ज्ञातव्यं बोद्धव्यम् ||१७| भवबालो यथाऽचिकित्स्यस्तथा दृष्टान्तहेतुपुरस्सरं प्रदर्शयति बालस्य धूलिगेहातिरमणकिरिया जहा परा भाइ । भवबालस्स वि तस्सत्तिजोगओ तह असक्किरिया ॥ १८ ॥ अक्षरगमनिका - बालस्य धूलिगृहादिरमणक्रिया यथा परा भाति तथा भवबालस्यापि तच्छक्तियोगतः असत्क्रिया ||१८|| टीका - बालस्य अव्यक्तवयसो धूलिगृहादिरमणक्रिया पांशुवेश्मापणादिक्रीडालक्षणचेष्टा यथा दृष्टान्ते परा प्रेष्ठा भाति लगति तथा दार्शन्तिके भवबालस्यापि उक्तस्वरूपस्यापि तच्छक्तियोगतः अनादिभवभ्रमणशक्तियोगाद् असत्क्रिया विषयभोगादिक्रिया प्राणप्रिया भातीति ||१८|| धर्मयुवा यथा चिकित्स्यो भवति तथाह जुव्वणजुत्तस्स उ भोगरागओ सा न किंचि जह चेव । एमेव धम्मरागाऽसक्किरिया धम्मजूणो वि ॥१६॥ अक्षरगमनिका- — यथा यौवनयुक्तस्य तु भोगरागादेव सा न किञ्चित् । एवमेव धर्मरागाद् असत्क्रिया धर्मयूनोऽपि ॥ १६ ॥ टीका — यथा येन प्रकारेण यौवनयुक्तस्य उक्तलक्षणयौवनेनान्वितस्य तुर्विशेषे भोगरागादेव स्त्रीस्रक्चन्दनादिविषयाभिष्वङ्गादेव सा बालधूलिगृहादिरमणक्रिया न नैव किञ्चिद् मनागपि भातीति शेषः । एवमेव तथैव धर्मरागात् चारित्रधर्मस्पृहातः असत्क्रिया उक्तलक्षणा धर्मयूनोऽपि धर्मयौवनयुक्तस्यापि न किञ्चिद् भातीति ॥ १६ ॥ उपसंहरन्नाह इय बीजाइकमेणं जायइ जीवाण सुद्धधम्मु त्ति । जह चंदणस्स गंधो तह एसो तत्तओ चेव ॥२०॥ इति बीजादिविंशिका पञ्चमी ॥ ५ ॥ अक्षरगमनिका — इति बीजादिक्रमेण जीवानां जायते शुद्धधर्म इति, यथा चन्दनस्य गन्धस्तथैव तत्त्वत एव ॥ २०॥ Jain Education International टीका — इति एवमुक्तप्रकारेण बीजादिक्रमेण बीजाङ्कुरादिपरम्परातो जीवानां भव्यसत्त्वानां जायते प्रादुर्भवति शुद्धधर्मः अनवद्यो धर्म इतिर्हेतौ यस्मादनवद्यो धर्मस्तस्माद्बीजादिक्रमेणैव जायते नान्यथेति भावः । अत्रार्थे दृष्टान्तमाह-यथा येन प्रकारेण चन्दनस्य मलयजस्य गन्धः सुरभिः स्वभावस्तथा तेन प्रकारेण एषः अनवद्यो धर्मस्तत्त्वतः परमार्थतो जीवस्य स्वभाव एव । किञ्च चन्दनस्य गन्धो जीवानां यथाऽऽनन्ददायी तथैव शुद्धधर्मोपीति ॥ २०॥ विं. ५ * For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148