Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
३२ ]
पञ्चमी बीजादिविंशिका
इय समयनी जोगा इयरेयरसंगया उ जुज्जंति ।
इहं दिव्वपुरिसगारा पहाणगुणभावओ दोवि ॥१५॥
अक्षरगमनिका — इति समयनीतियोगादितरेतरसंगतौ तु युज्येत इह दैवपुरुषकारी प्रधानगौणभावतो द्वावपि ॥ १५ ॥
टीका - इति उक्तप्रकारेण समयनीतियोगाद् आगमयुक्तिसंगत्या इतरेतरसंगतौ परस्परविहितोपष्टम्भा एव तुरवधारणे युज्येते घटेते इह बीजादिप्राप्तौ व्यवहारनयमते वा दैवपुरुषकारौ उक्तस्वरुपौ प्रधानगीणभावतो मुख्योपसर्जनीभावात् द्वावपि एतौ । एतदुक्तं भवति यतो भवस्थजीवस्य दैवं विना न पुरुषकारसम्भवो न च पुरुषकारविकलस्य दैवस्य फलम् उक्तं च न भवस्थस्य यत्कर्म, विना व्यापारसम्भवः । न च व्यापारशून्यस्य फलं यत्कर्मणोपि हि ||१|| ततो यत्र पुरुषकारः प्रधानभावेन प्रयुज्यते तत् फलं पुरुषकारेणेति व्यवह्रियते । यत्र च पुरुषकारः स्वल्प एव प्रयुज्यते तद् दैवेनेति ॥ १५ ॥ एतौ दैवपुरुषकारौ यद्यपि तुल्यबलौ तथाप्यचरमावर्तेषु औदयिकभावनिरोधलक्षणः पुरुषकारो दैवेन बाध्यते । चरमावर्ते तु दैवमुक्तलक्षणेन पुरुषकारेण बाध्यतेऽत आह
ता बीजपुव्वकालो नेओ भवबालकाल एवेह |
इयरोउ धम्मजुव्वणकालो विह लिंगगम्मु त्ति ॥ १६ ॥
[ विंशतिर्विंशिकाः
अक्षरगमनिका — तस्माद् बीजपूर्वकालो ज्ञेयो भवबालकाल एवेह । इतरस्तु धर्मयौवनकालोपीह लिङ्गगम्य इति ॥ १६ ॥
टीका — यस्मात् कारणात् कालविशेषं प्राप्य दैवपुरुषकारौ परस्परं बाध्यबाधकौ जायेते तस्मात् कारणाद् बीजपूर्वकालो धर्मकल्पवृक्षस्य बीजाधानात् प्राक्तनः कालो ज्ञेयो बोद्धव्यो भवबालकाल एव उक्तस्वरूप एव इह संसारे। यतः अचरमावर्तेषु दैवमेव विजृम्भत औदयिकभावस्य प्राधान्यात् । इतरो बीजाधानादूर्ध्वं तुर्विशेषे धर्मयौवनकालः पूर्ववर्णितस्वरूपो ज्ञेय औदयिकभावनिरोधेनात्मवीर्यलक्षणपुरुषकारस्य प्रवर्तनात् । न केवलं भवबालकाल एष धर्मयौवनकालोऽपि इह मौनीन्द्रप्रवचने लिङ्गगम्यो बहुमानसंगतशुद्धप्रशंसादिचिह्नलक्ष्यः। लिङ्गानि चैवं शास्त्रान्तरे प्रतिपादितानि दृश्यन्ते - पावं ण तिव्वभावा कुणइ, ण बहुमण्णई भवं घोरं । उचियट्ठि च सेवइ सव्वत्थवि अपुणबंधो त्ति ||१|| 'विहिलिंगगम्म' त्ति पाठान्तरमाश्रित्य विधिपरिपालनाऽविधिवर्जनादिलिङ्गगम्य इतिः परिसमाप्तौ || १६ || अथ भवबालकाले कालस्य प्राधान्यात्तत्र वर्तमानो जीवः अचिकित्स्य इति दृष्टान्तपुरस्सरमाह
Jain Education International
पढ़मे इह पाहनं कालस्सियरम्मि चित्तजोगाणं । वाहिस्सुदयचिकिच्छासमयसमं होइ नायव्वं ॥१७॥
अक्षरगमनिका — प्रथम इह प्राधान्यं कालस्येतरस्मिंश्च चित्रयोगानाम्, व्याधेरुदयचिकित्सासम भवति ज्ञातव्यम् ||१७||
टीका-प्रथमे भवबालकाल इह धर्मबीजाद्यप्राप्तौ प्राधान्यं महत्त्वं कालस्य अचरमावर्तलक्षणस्य, इतरस्मिन् धर्मयौवनकाले चित्रयोगानां भवोद्वेगसहकृतदेवपूजागुरुवन्दनवैयावृत्त्यदयादानतपःप्रभृतिविविधानुष्ठानानां प्राधान्यमित्यनुवृत्तेः । ननु भवबालकाले किमिति कालस्य प्राधान्यं न तु चित्रयोगाना
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148