Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor
View full book text
________________
२६] चतुर्थी चरमपरिवर्तविंशिका
[विंशतिर्विंशिकाः प्राधान्यम् इतरेतरभावसापेक्षं पारस्पर्येण सापेक्षमवगन्तव्यमिति ।।१५।। एतदेव प्रस्तुते योजयति
तहभव्वत्तखित्तो जह कालो तह इमं ति तेणं ति।
इय अनुनाविक्खं रूवं सवेसि हेऊण॥१६॥ अक्षरगमनिका तथाभव्यत्वाक्षिप्तो यथा कालस्तथैतदपि तेनेति । एवमन्योन्यापेक्षं रूपं सर्वेषां हेतूनाम् ।।१६।।
टीका-तथाभव्यत्वाक्षिप्त उक्तस्वरूपतथाभव्यत्वेन सन्निहितकृतो यथा येन प्रकारेण काल उक्तलक्षणस्तथा तेन प्रकारेण एतदपि तथाभव्यत्वमपि तेन कालेन सन्निहितकृतम् इति हेतोः, एवम् उक्तप्रकारेण अन्योन्यापेक्षं परस्परसापेक्षं रूपं स्वरूपं सर्वेषां समस्तानां हेतूनां कारणानामिति ॥१६।। किमिति सर्वेषां भव्यात्मनां भव्यत्वं कालादिसर्वेहेतुभिस्तुल्यं न भवतीति चेदाह
न य सव्वेहेउतुल्लं भवत्तं हंदि सव्वजीवाणं।
जं तेणेवक्खित्ता तो तुल्ला दंसणाईया॥१७॥ अक्षरगमनिका न च सर्वहेतुतुल्यं भव्यत्वं हन्त सर्वजीवानां यत्तेनाक्षिप्तास्ततस्तुल्या दर्शनादिकाः प्रसज्येरन् ।।१७।।
टीका-न नैव चो विशेष सर्वहेतुतल्यं सर्वे कालादिहेतवस्तुल्या यस्य तत्तथा भव्यत्वम् उक्तस्वरूप हन्त विषादे सर्वजीवानां निखिलभव्यसत्त्वानामस्ति, यत् यस्मात् कारणात् तेनाक्षिप्ता भव्यत्वेन सन्निहितकतास्ततस्तस्मात सर्वजीवानां तल्याः कालादिना यगपत दर्शनादिकाः सम्यग्दर्शनचारित्रादयः प्रसज्येरन । अयं भावः–यदि कालादिसर्वहेतुतुल्यं भव्यत्वं सर्वभव्यसत्त्वानां भवेत्तर्हि तेन भव्यत्वेनाक्षिप्ताः सम्यग्दर्शनचारित्रादिसर्वभावाः सर्वेषां युगपत् तुल्याश्च स्यु। न चैतत् दृष्टमिष्टं च। तस्मात् सर्वहेतुतुल्यं भव्यत्वं सर्वेषां न भवतीति समवसेयम् ।।१७।। एतदेवाभ्युच्चयति
न इमो इमेसि हेऊ, न य णातुल्ला इमे ण एवं पि।
एएसि तहा हेऊ ता तहभावं इमं नेयं ॥१८॥ अक्षरगमनिका—न चायमेतेषां हेतुः । न च नातुल्या इमे। नैतदप्येतेषां तथा हेतुस्ततस्तथाभावमिदं ज्ञेयम् ।।१८।।
टीका-न नैव अयं काल एतेषां सम्यग्दर्शनादीनाम् एकान्तेन हेतुः कारणम्। न नैव चः समुच्चये न नैव अतुल्या असमानकालादिका इमे सम्यग्दर्शनादयः, अपि त्वतुल्या एव। न नैव एतदपि भव्यत्वमपि सर्वेषां नातुल्यम्, अपि त्वतुल्यमेवेत्यनुवृत्तेः। किञ्च एतद् भव्यत्वमपि न एतेषां सम्यग्दर्शनादीनां तथा केवलमपरनिरपेक्षतया हेतुः कारणम्। ततस्तस्मात् तथाभावं तत्तत्कालादिसामग्री प्राप्य सम्यग्दर्शनादीनां प्रति हेतुस्वभावम् इदं भव्यत्वं भव्यजीवानां ज्ञेयं बोद्धव्यम् ।।१८|| प्रस्तुततमुपसंहरन्नाह
अचरिमपरियट्टेसुं कालो भवबालकालमो भणिओ।
चरिमो उ धम्मजुव्वणकालो तहचित्तभेओ ति॥१६॥ अक्षरगमनिका-अचरमपरिवर्तेषु कालो भवबालकालो भणितः। चरमस्तु धर्मयौवनकालस्तथाचित्रभेद इति ।।१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148