Book Title: Vinshativinshika Prakaranam
Author(s): Haribhadrasuri, Kulchandrasuri
Publisher: Jain Sangh Sihor

View full book text
Previous | Next

Page 35
________________ २४ ] चतुर्थी चरमपरिवर्तविंशिका हेयोपादेयादिविवेकलक्षणं शुद्धधर्मं प्राप्नोतीति ॥ ८ || एनमेवार्थं दृष्टान्तपुरस्सरं समर्थयति - भमणकिरियाहियाए सत्तीए समन्निओ जहा बालो । पासइ थिरे वि हु चले भावे जा धरइ सा सत्ती ॥६॥ अक्षरगमनिका — भ्रमणक्रियाऽऽहितया शक्त्या समन्वितो यथा बालः पश्यति स्थिरानपि खलु चलान् भावान् यावत्तेन ध्रियते सा शक्तिः ||६|| टीका — भ्रमणक्रियाऽऽहितया भ्रमणक्रियया चक्राकारगत्याऽऽहिता उत्पादिता या शक्तिः सामर्थ्यं वासना वा तया शक्त्या समन्वितो युक्तो यथा निर्दर्शने बालः अव्यक्तवयास्तावत् पश्यति विलोकयति न केवलं चलान् स्थिरानपि अचलानपि भावान् खलु निश्चये चलान् अस्थिरानेव भावान् पदार्थान् यावदवधि तेन बालेन प्रियते धार्यते साऽनन्तरोक्ता शक्तिः उक्तरूपेति ||६|| अथ दान्तिकमाह तह संसारपरिब्भमणसत्तिजुत्तो वि नियमओ चेच । हेए वि उवाएए ता पासइ जाव सा सत्ती ॥१०॥ अक्षरगमनिका- — तथा संसारपरिभ्रमणशक्तियुक्तोऽपि नियमत एव हेयानपि उपादेयान् तावत् पश्यति यावत् सा शक्तिः ||१०|| [ विंशतिर्विशिकाः टीका — अनन्तरोक्तदृष्टान्ते यथा बालो विपर्यासमेति तथा तेन प्रकारेण संसारपरिभ्रमणशक्तियुक्तोऽपि भवभ्रमणहेतुभूतभावक्रिययाऽऽपादितशक्त्या समन्वितोऽपि संसारिसत्त्वः, आस्तां बाल इत्यपेरर्थः, नियमत एव अवश्यमेव न केवलमुपादेयान् हेयानपि हातुं योग्यानपि स्त्र्यादिभावान् उपादेयान् उपात्तुं योग्यान् तावत् कालावधि मिथ्यात्वादितीव्रपापाभिभूतत्वात् पश्यति विलोकयति यावदवधि साऽनन्तरोक्तरूपा शक्तिर्जीवेन ध्रियत इति ||१०|| अथ दृष्टान्तदान्तिकोभयविधशक्तिविगमे यत्स्यात्तदाह जह तस्सत्तीविगमे पासइ पढमो थिरे थिरे चेव । बीओ वि उवाएए तह तव्विगमे उवाएए ॥११॥ Jain Education International अक्षरगमनिका - यथा तच्छक्तिविगमे पश्यति प्रथमः स्थिरान् स्थिरानेव द्वितीयोऽप्युपादेयान् तथा तद्विगम उपादेयान् ॥ १ ॥ टीका यथा येन प्रकारेण तच्छक्तिविगमे भ्रमणक्रियाऽऽहितशक्तिविगमे पश्यति विलोकयति प्रथमो बालः स्थिरान् अचलपदार्थान् स्थिरानेव अचलानेव तथा तेन प्रकारेण द्वितीयोऽपि संसारिजीवोऽपि उपादेयान् सम्यग्दर्शनादीन् तद्विगमे संसारपरिभ्रमणशक्तिविगमे पश्यति उपादेयान् उपात्तुं योग्यानेवेति ॥ ११ ॥ अधुना संसारपरिभ्रमणशक्तिविगमे कथञ्चित् कालस्य प्राधान्यं विरचयन्नाह - तस्सत्तीविगमो पुण जायइ कालेण चैव नियएण तहभव्वत्ताइतदन्नहेउकलिएण व कहिंचि ॥ १२ ॥ अक्षरगमनिका - तच्छक्तिविगमः पुनर्जायते कालेनैव नियतेन तथाभव्यत्वादितदन्यहेतुकलितेन च कथञ्चित् ।। १२ ।। टीका - तच्छक्तिविगमः संसारपरिभ्रमणशक्तिह्रासः पुनर्विशेषे जायते भवति कालेनैव सहकारिणा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148