________________
२४ ]
चतुर्थी चरमपरिवर्तविंशिका
हेयोपादेयादिविवेकलक्षणं शुद्धधर्मं प्राप्नोतीति ॥ ८ || एनमेवार्थं दृष्टान्तपुरस्सरं समर्थयति - भमणकिरियाहियाए सत्तीए समन्निओ जहा बालो ।
पासइ थिरे वि हु चले भावे जा धरइ सा सत्ती ॥६॥
अक्षरगमनिका — भ्रमणक्रियाऽऽहितया शक्त्या समन्वितो यथा बालः पश्यति स्थिरानपि खलु चलान् भावान् यावत्तेन ध्रियते सा शक्तिः ||६||
टीका — भ्रमणक्रियाऽऽहितया भ्रमणक्रियया चक्राकारगत्याऽऽहिता उत्पादिता या शक्तिः सामर्थ्यं वासना वा तया शक्त्या समन्वितो युक्तो यथा निर्दर्शने बालः अव्यक्तवयास्तावत् पश्यति विलोकयति न केवलं चलान् स्थिरानपि अचलानपि भावान् खलु निश्चये चलान् अस्थिरानेव भावान् पदार्थान् यावदवधि तेन बालेन प्रियते धार्यते साऽनन्तरोक्ता शक्तिः उक्तरूपेति ||६|| अथ दान्तिकमाह
तह संसारपरिब्भमणसत्तिजुत्तो वि नियमओ चेच ।
हेए वि उवाएए ता पासइ जाव सा सत्ती ॥१०॥
अक्षरगमनिका- — तथा संसारपरिभ्रमणशक्तियुक्तोऽपि नियमत एव हेयानपि उपादेयान् तावत् पश्यति यावत् सा शक्तिः ||१०||
[ विंशतिर्विशिकाः
टीका — अनन्तरोक्तदृष्टान्ते यथा बालो विपर्यासमेति तथा तेन प्रकारेण संसारपरिभ्रमणशक्तियुक्तोऽपि भवभ्रमणहेतुभूतभावक्रिययाऽऽपादितशक्त्या समन्वितोऽपि संसारिसत्त्वः, आस्तां बाल इत्यपेरर्थः, नियमत एव अवश्यमेव न केवलमुपादेयान् हेयानपि हातुं योग्यानपि स्त्र्यादिभावान् उपादेयान् उपात्तुं योग्यान् तावत् कालावधि मिथ्यात्वादितीव्रपापाभिभूतत्वात् पश्यति विलोकयति यावदवधि साऽनन्तरोक्तरूपा शक्तिर्जीवेन ध्रियत इति ||१०|| अथ दृष्टान्तदान्तिकोभयविधशक्तिविगमे यत्स्यात्तदाह
जह तस्सत्तीविगमे पासइ पढमो थिरे थिरे चेव ।
बीओ वि उवाएए तह तव्विगमे उवाएए ॥११॥
Jain Education International
अक्षरगमनिका - यथा तच्छक्तिविगमे पश्यति प्रथमः स्थिरान् स्थिरानेव द्वितीयोऽप्युपादेयान् तथा तद्विगम उपादेयान् ॥ १ ॥
टीका यथा येन प्रकारेण तच्छक्तिविगमे भ्रमणक्रियाऽऽहितशक्तिविगमे पश्यति विलोकयति प्रथमो बालः स्थिरान् अचलपदार्थान् स्थिरानेव अचलानेव तथा तेन प्रकारेण द्वितीयोऽपि संसारिजीवोऽपि उपादेयान् सम्यग्दर्शनादीन् तद्विगमे संसारपरिभ्रमणशक्तिविगमे पश्यति उपादेयान् उपात्तुं योग्यानेवेति ॥ ११ ॥ अधुना संसारपरिभ्रमणशक्तिविगमे कथञ्चित् कालस्य प्राधान्यं विरचयन्नाह -
तस्सत्तीविगमो पुण जायइ कालेण चैव नियएण तहभव्वत्ताइतदन्नहेउकलिएण व कहिंचि ॥ १२ ॥
अक्षरगमनिका - तच्छक्तिविगमः पुनर्जायते कालेनैव नियतेन तथाभव्यत्वादितदन्यहेतुकलितेन च कथञ्चित् ।। १२ ।।
टीका - तच्छक्तिविगमः संसारपरिभ्रमणशक्तिह्रासः पुनर्विशेषे जायते भवति कालेनैव सहकारिणा
For Private & Personal Use Only
www.jainelibrary.org