________________
विंशतिर्विंशिकाः ]
चतुर्थी चरमपरिवर्तविंशिका
[ २३
मुक्तिगमनयोग्यस्य भव्यजीवस्य चरमोऽपि अन्त्योऽप्येष पुद्गलपरावर्ती नीत्या युक्त्या युज्यते घटते । युक्तिमेवाह- इतरथा चरमपुद्गलपरावर्तानभ्युपगमे तुर्विशेषे तत्तत्स्वभावक्षयवर्जित औदारिकादितत्तत्पुद्गलग्रहणस्वभावलक्षणसहजमलक्षयरूपभव्यत्वेन वर्जितो विरहित: अयमेव मुक्तात्मैव, किं प्रश्ने न नैव सर्वोऽपि निखिलोऽपि संसारिभव्यजीवराशिः ? अथवा तात्स्थ्यात्तद्व्यपदेश इतिन्यायात् तत्तत्स्वभावक्षयवर्जितः अयमेव चरमपुद्गलपरावर्तः, किं न सर्वोऽपि द्विचरमादिपुद्गलपरावर्तरूपो निखिलोऽपि कालः ? अयं भावःचरमपुद्गलपरावर्तानभ्युपगमे जीवस्य सदैव पुद्गलग्रहणस्वभावः प्रसज्येत, तथा च मुक्तिवार्ताऽपि दुरापास्ता स्यात् न चैतद् दृष्टमिष्टं च ॥ ५ ॥ एतदेव स्पष्टयति
तत्तग्गहणसहावो आयगओ इत्थ सत्थगारेहिं ।
सहजो मलु त्ति भण्णइ, भव्वतं तक्खओ एसो ॥ ६ ॥
अक्षरगमनिका— तत्तद्ग्रहणस्वभाव आत्मगतः अत्र शास्त्रकारैः सहजो मल इति भण्यते भव्यत्वं तत्क्षय एषः || ६ ||
औदारिकादितत्तत्पुद्गलादानप्रकृतिः
टीका— तत्तद्वहणस्वभाव आत्मगतः संसारिजीवगतः अत्राऽध्यात्मविचारे शास्त्रकारैस्तीर्थकृद्गणधरैः सहजोऽनादित्वेन जीवसहभावित्वात् सज्ज्ञानादिगुणमलनाच्च मल इतिर्निर्देशे भण्यते कथ्यते इति तथा भव्यत्वम् उक्तस्वरूपं तत्क्षयः सहजमलक्षयस्तात्स्थ्यात्तद्व्यपदेश इति एष चरमपरिवर्त एवेति || ६ || ततः किमित्याह
एयस्स परिक्खयओ तहा तहा हंत किंचि सेसम्मि । जायइ चरिमो एसु त्ति तंतजुत्ती पमाणमिह ॥७॥
अक्षरगमनिका - एतस्य परिक्षयस्तथा तथा हन्त किञ्चिच्छेषे जायते चरम एष इति । तन्त्रयुक्तिः प्रमाणमिह || ७ ||
टीका - एतस्य सहजमलस्य परिक्षयतो बाहुल्येनापचयात् तथा तथा तेन तेन प्रकारेण कालादिसामग्री प्राप्य हन्त हर्षे किञ्चिच्छेषे स्वल्पावशिष्टे सति जायते प्रवर्तते एष चरमः पुद्रलपरावर्त इतिः समाप्तौ । तन्त्रयुलीः शास्त्रहेतू प्रमाणम् उक्तस्वरूपम् इह अस्मिन् चरमपुद्गलपरावर्तव्यतिकरे । युक्तिस्तु प्राग् लेशतो दर्शितैवेति ॥ ७ ॥ ततोऽपि किमित्याह
एयम्मि सहजमल भावविगमओ सुद्धधम्मसंपत्ती । हेयेतरातिभावे जं न मुणइ अन्नहिं जीवो ॥ ८ ॥
अक्षरगमनिका —— एतस्मिन् सहजमलभावविगमतः शुद्धधर्मसम्पत्तिर्भवति । हेयेतरादिभावान् यन्न मुत्यन्येषु जीवः ॥ ८ ॥
टीका — एतस्मिन् चरमपुद्रलपरावर्ते सहजमल भावविगमतः तत्तत्पुद्गलग्रहणस्वभावापचयात् शुद्धधर्मसम्पत्तिः अनवद्यधर्मसम्प्राप्तिर्भवतीति शेषः । तत एव हेयोपादेयादिविवेकबुद्धिर्जीवस्य प्रादुर्भवति । एतदेव व्यतिरेकेणाह - हेयेतरादिभावान् हानोपादानोपेक्षायोग्यान् पदार्थान् यद् यस्माद् न नैव मुणति निश्चिनोति अन्येषु द्विचरमादिपरावर्तेषु जीवः संसारिसत्त्वः । एतदुक्तं भवति यस्माद् द्विचरमादिपरावर्तेषु जीवो हेयोपादेयादिभावान् हेयोपादेयादिरूपेण ज्ञातुं न पारयति तस्मात् चरमपरावर्त एव सहजमलविगमाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org