________________
२२ ]
चतुर्थी चरमपरिवर्तविंशिका
[ विंशतिर्विशिकाः
टीका — मोक्षाशयोऽपि मुक्ताविच्छाऽपि, आस्तां त्रिधा शुद्धधर्म इत्यपेरर्थः नान्यत्र नैव द्विचरमादिपरावर्तेषु भवति जायते गुरुभावमलप्रभावेण गुरुर्निबिडः परमार्थतः सहजसज्ज्ञानादिस्वभावमलनाद् भावमलस्तस्य प्रभावेणानुभावेन । यथा दृष्टान्ते गुरुव्याधिविकारे सन्निपातादिमहारोगाऽऽपादितविकृतौ न नैव जातु कदाचिज्जीवः पथ्याशकः स्वास्थ्यप्रदाहारादिभोजी भवति, यदिवा जीवस्य पथ्याशयः पथ्ये रुचिः सम्यक् स्वरसतो न भवतीति || २ || अथ संसारे संसरतामसुमतां कियन्तः परिवर्ता भवन्तीत्याहपरियट्टा उ अनंता हुंति अणाइम्मि इत्थ संसारे । तप्पुग्गलाणमेव य तहा तहा हुंति गहणाओ ॥ ३ ॥
अक्षरगमनिका - परिवर्तास्त्वनन्ता भवन्ति अनादावत्र संसारे तत्पुद्गलानामेव च तथा तथा भवन्ति ग्रहणात् ॥ ३ ॥
टीका - परिवर्ता उक्तस्वरूपपुद्गलपरावर्तास्तुरवधारणे भिन्नक्रमश्च तथाभव्यत्वाक्षिप्ता अनन्ता एव भवन्ति जायन्तेऽतीताद्धाया अनन्तत्वाद् अनादी आदिविरहिते अत्रास्मिन् संसारे चतुर्गतिभ्रमणलक्षणे । कथं भवन्तीत्याह - तत्पुद्गलानामेव कर्मप्रभृतिपरमाणूनामेव चो विशेषे तथा तथा तेन तेन प्रकारेण कार्मणौदारिकादिशरीरेन्द्रियादिरूपेण भवन्ति जायन्ते ग्रहणाद् आदानाद् उपलक्षणान्मोक्षाच्च पुद्गलपरावर्ता अनन्तरोक्तप्रमाणा जायन्त इति || ३ || यथा पुद्गला जीवग्राह्यस्वभावास्तथा जीवोऽपि पुद्गलग्रहणस्वभाव इति प्रदर्शयति
तह तग्गेज्झसहावा जह पुग्गलमो हवंति नियमेण ।
तह तग्गहणसहावो आया य तओ उ परियट्टा ॥४॥
अक्षरगमनिका - तथा तद्ग्राह्यस्वभावा यथा पुद्गला भवन्ति नियमेन तथा तद्ग्रहणस्वभाव आत्मा च ततस्तु परिवर्ताः ॥४ ॥
टीका - तथा समुच्चये तद्ग्राह्यस्वभावाः संसारिजीवग्राह्यस्वभावा यथा येन प्रेकारण पुद्गला उक्तस्वरूपा भवन्ति जायन्ते नियमेनाऽवश्यंतया तथा तेन प्रकारेण तद्ग्रहणस्वभाव पुद्गलग्रहणस्वभाव आत्मा संसारिसत्त्वः चः समुच्चये भवति । ततस्तस्मादेव तुरवधारणे परिवर्ताः पुद्गलपरावर्ता भवन्तीति शेषः ॥ परस्परं ग्रहणग्राहकस्वभावविरहे बन्धादयोऽपि न घटेरन् । तदुक्तं च योगशतकवृत्तौ ते परमाणवोऽनादित एव तथाऽनन्तशः तदात्मग्रहणस्वभावाः, सोऽप्यात्मा एवमेव तद्ग्राहकस्वभाव इत्युभयोस्तत्स्वभावतया घटन्ते तथा बन्धादयः अन्यथा मुक्तानामपि बन्धादिप्रसङ्गः, अतस्तत्स्वभावत्व एवोभयोरपि तद्भावोपपत्तेरिति भावनीयम् ॥ ४ ॥
एवं मुक्तिगमनयोग्यस्य भव्यजीवस्य चरमोपि पुद्गलपरावर्तो युज्यत इत्याहएवं चरमोऽवेसो नीईए जुज्जई इहरहा उ ।
तत्तस्सहावखयवज्जिओ इमो किं न सव्वो वि ? ॥५॥
अक्षरगमनिका - एवं चरमोऽप्येष नीत्या युज्यत इतरथा तु तत्तत्स्वभावक्षयवर्जितः अयमेव किं न सर्वोऽपि ॥ ५ ॥
टीका— एवमनन्तरोक्तप्रकारेण प्रतिजीवं प्रायः अनन्ताः पुद्गलपरावर्ता भवन्ति अत एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org