________________
विंशतिर्विशिकाः ] चतुर्थी चरमपरिवर्तविंशिका
[२१ अक्षरगमनिका-विषयस्वरूपानुबन्धैर्भवति शुद्धस्त्रिधेह धर्मो यत्तस्मान्मोक्षाशयतः सर्वः किल सुन्दरो ज्ञेयः ॥२०॥
टीका-प्राकृतत्वाद्वचनव्यत्यय इति विषयस्वरूपानुबन्धैः विषयेण गोचरेण यथा मुक्तिर्मे भूयादस्माद्धर्मादिति स्वरूपेणात्मना अहिंसामयः अनुबन्धेन चोत्तरत्रानुवृत्तिलक्षणेन जीवादितत्त्वसंवेदनानुगः प्रशान्तवृत्त्या च भवति जायते शुद्धः अनवद्यस्त्रिधा त्रिप्रकार इह धर्मिलोके धर्मो निरुक्तस्वरूपो यद् यस्मात्कारणात् तस्मात मोक्षाशयतः अपवर्गाभिसन्धितः सर्वो निखिलः किल संभावनायां सुन्दरः शोभनो ज्ञेयः अवसेयः। उक्तं च-आद्यं यदेव मुक्त्यर्थं क्रियते पतनाद्यपि। तदेव मुक्त्युपादेयलेशभावाच्छुभं मतम् ।।१॥ (यो. बि. २१२।।) इदमुक्तं भवति–मोक्षाशयतोऽपि क्रियमाणं भृगुपातादि न दोषविगमायाऽज्ञानबाहुल्यात्। मतान्तरेण तु दोषविगमोचितस्य जातिकुलादिगुणोपेतस्य जन्मनः सन्धायकमिति ॥२०॥
चतुर्थी चरमपरिवर्तविंशिका अनन्तरविंशिकामुपसंहरता ग्रन्थकृता त्रिधा शुद्धधर्म उक्तः। स च चरमपुद्गलपरावर्ते जायत इत्यत्रोच्यते
निच्छयओ पुण एसो जायइ नियमेण चरमपरियढे।
तहभवत्तमलक्खयभावा अचंतसुद्ध ति॥१॥ अक्षरगमिनिका निश्यचतः पुनरेष जायते नियमेन चरमपरिवर्ते तथाभव्यत्वमलक्षयभावाद् अत्यन्तशुद्ध इति ।।१।।
टीका-निश्चयतः परमार्थतः पुनर्विशेष एष त्रिधा शुद्धधर्मो जायते प्रादुर्भवति नियमेन अवश्यंतया चरमपरिवर्ते चरमः पर्यन्तवर्ती परिवर्तः पुद्गलपरावर्तः द्रव्यतः सामान्येन सर्वपुद्गलग्रहणमोक्षरूपस्तन्त्रप्रसिद्धानन्तोत्सर्पिण्यवसर्पिणीकालमानलक्षणस्तस्मिन् प्रवृत्ते सतीत्यर्थः। कुतः ? तथाभव्यत्वमलक्षयभावाद् भव्यत्वं नाम मुक्तिगमनयोग्यत्वमनादिपारिणामिको भावः, तथाभव्यत्वमिति विशिष्टमेतत् कालादिभेदेन जीवानां बीजसिद्धिभावात् तेन मलो जीवस्यानादिपुद्गलग्रहणस्वभावलक्षणस्तस्य क्षयः अपचयस्तस्य भावो भवनं तस्मात् । कस्मादेवमित्याह-अत्यन्तशुद्धः अतीवाऽनवद्यो निवृत्तिरूप इति हेतोः। अयं भावः—यस्मात् कारणाद एष धर्मो निश्चयतः अत्यन्तशद्धस्तस्मात तथाभव्यत्वेन सहजमलक्षयात् चरमपुद्गलपरावर्त एव प्रादुर्भवति, नान्येष्विति ।।१।। एतदेवाभ्युच्चयति
मुक्खासओ वि नन्नत्थ होइ गुरुभावमलपहावेण ।
जह गुरुवाहिविगारे न जाउ पत्थासओ सम्मं ॥२॥ ___ अक्षरगमनिका-मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण यथा गुरुव्याधिविकारे न जातु पथ्याशयः सम्यक् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org